सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 81, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 81

६२ शिल्परत्ने [उत्तरभागः
पर्वत्रयं तु सर्वासांमङ्गुलीनां प्रकीर्तितम् ।
अर्धाङ्गुलं समुत्सेधः सर्वासामग्रतो भवेत् ॥ १२१ ॥
सर्वासां पादशाखानाग्रपर्वार्धतो नखाः ।
आताम्रास्ते तु कर्तव्याश्चित्रकर्मविशारदैः ॥ १२२ ॥
करास्तु स्कन्धसन्धेस्तु पश्चाद्भागे कृकाटिका ।
देशात्तु ततः कक्षमूलमेकादशाङ्गुलम् ॥ १२३ ॥
स्कन्धाभ्यां निर्गतावंसौ फलकौ षट्षडङ्गुलौ ।
तयोर्मध्ये भवेद् वंशः कलामात्रप्रमाणतः ॥ १२४ ॥
उत्तानकदलीपुष्पसन्निभः पृथुवंशकः ।
तदेव पृष्ठभागस्य स्वरूपं परिकीर्तितम् ॥ १२५ ॥
कक्षात्तत् कूर्परं यावद् बाहुपर्वेति कथ्यते ।
अष्टादशाङ्गुलं दैर्घ्यं नाहेऽप्यष्टादशाङ्गुलम् ॥ १२६ ॥
कूर्परात् तलपर्यन्तं पर्व सतद