शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 80, कुल 280 में से
संदर्भ में पढ़ेंउत्तमं नवतालम् ।] अष्टमोऽध्यायः । ६१
गुल्फौ व्यङ्गुलकौ कार्यौ विस्तारेण समन्ततः ।
पादपृष्ठं तु कर्तव्यं प्रोन्नतं गजपृष्ठवत् ॥ ११०॥
तस्याधस्तलदेशस्तु निम्ने ह्यन्तरतो भवेत् ।
बहिर्भागे समं कार्यं पार्ष्णेर्यावत् कनिष्ठिका ॥ १११॥
अङ्गुष्ठमूलदेशे तु तलं कार्यं समुन्नतम् ।
पादाग्रतलविस्तारं षडङ्गुलमुदाहृतम् ॥ ११२ ॥
पार्ष्णेश्च तलविस्तारः कथितश्चतुरङ्गुलः ।
पादपृष्ठस्य चोत्सेधो भागस्त्वर्धाङ्गुलाधिकः ॥ ११३ ॥
अग्रपादस्य चोत्सेधस्त्र्यङ्गुलः समुदाहृतः ।
अङ्गुष्ठमूलदेशे तु व्यङ्गुलः स्यात् समुच्छ्रयः ॥ ११४ ॥
अङ्गुष्ठस्य समुत्सेधो मात्रा स्याद् द्वियवाधिका ।
अङ्गुष्ठदैर्घ्यमुद्दिष्टमङ्गुलत्रयमीरितम् ॥ ११५॥
अङ्गुष्ठस्य परीणाहो भवेत् पञ्चभिरङ्गुलैः ।
द्विपर्वाङ्गुष्ठमुद्दिष्टं प्रान्तपत्रार्धतो नखः ॥ ११६ ॥
तर्जनीदीर्घमुद्दिष्टं त्र्यङ्गुलं द्वियवाधिकम् ।
त्र्यङ्गुलस्तु परीणाहस्तस्याः पर्वत्रयं भवेत् ॥ ११७॥
मध्यमादीर्घमुद्दिष्टं यवद्वाविंशतिर्बुधैः ।
परीणाहस्तु तस्यास्तु यवानामेकविंशतिः ॥ ११८ ॥
आयामोऽनामिकायास्तु यवविंशतिरिष्यते ।
अनामिकापरीणाहः कार्योऽष्टादशभिर्यवैः ॥ ११९॥
कनिष्ठादैर्घ्यमाख्यातं सप्तभिर्दशभिर्यवैः ।
कनिष्ठायाः परीणाहो यवाः पञ्चदश स्मृताः ॥ १२० ॥