शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 82, कुल 280 में से
संदर्भ में पढ़ेंउत्तमं नवतालम् ! ] अष्टमोऽध्यायः । ६३
इत्यायामैस्तलः प्रोक्तः पञ्चमात्रा तु विस्तृतिः ।
अङ्गुष्ठमूलरेखायास्तर्जन्याश्च तथैव च ॥ १३२ ॥
मध्यभागप्रमाणं स्यादङ्गुलत्रयसम्मितम् ।
कनिष्ठामूलरेखाया अधस्तादङ्गुलान्तरे ॥ १३३ ॥
अनामेः कलया मूलान्मध्यायाः सार्धमात्रया ।
आयुर्लेखा भवेत् सा तु किञ्चिद् वक्रा प्रदृश्यते ॥
मध्यमातर्जनीमध्यं प्रविष्टा सा प्रकल्प्यते ।
अङ्गुष्ठमूलतर्जन्यस्त्र्यङ्गुलान्तरमध्यगा ॥ १३५ ॥
शक्तिरेखा प्रकल्प्या स्यात् सापि वक्रा भवेन्मनाक् ।
मध्यमाया अधोभागे गोलकद्वितयान्तरे ॥ १३६ ॥
अनामिकाकनिष्ठाया सा स्यात् त्र्यङ्गुलदूरगा ।
तलमध्ये भवेद्न्या रेखा कार्मुकसंनिभा ॥ १३७ ॥
पुंरेखा लेखनीया तु सङ्गता शक्तिरेखया ।
कनिष्ठानामि(क?)मध्यानां सन्धिः सङ्कोचकारकः ॥
आलेख्या तु भवेत्तत्र पुरा प्रोक्ता च या मया ।
तर्जनीसन्धिदेशे तु शक्तिरेखासमुद्भवः ॥ १३९ ॥
अङ्गुष्ठतलसन्धौ तु पुंरेखा संव्यवस्थिता ।
अङ्गुलत्रितयं सार्धमायामेन कनिष्ठिका ॥ १४० ॥
अनामिकैकलायामा यवद्वयसमन्विता ।
पञ्चाङ्गुलायता मध्या तर्जनी चतुरङ्गुला ॥ १४१॥
अङ्गुष्ठस्य तदा दैर्घ्यं चतुरङ्गुलमीरितम् ।
अङ्गुष्ठस्य परीणाहः (स्फुटं प्रोक्तप्रमाणतः) ॥ १४२ ॥