शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 79, कुल 280 में से
संदर्भ में पढ़ें६० शिल्परत्ने [उत्तरभागः
मुष्कयोर्भागिकं दैर्घ्यं तदर्धं बीजसंयुतम् ।
भागे वा मूलभागे स्यात् कपिनासा प्रकल्प्यते ॥ १०० ॥
मुष्कौ सबीजकौ वृत्तौ भागद्वयविभाजितौ ।
तावन्मात्रपरीणाहौ कर्तव्यौ शिल्पकोविदैः ॥ १०१ ॥
अधस्तान्नीतसूत्रस्य लग्ने स्यातां ककुन्दरे ।
स्फिजोरधःपरीणाहस्त्रयस्त्रिंशन्मिताङ्गुलः ॥ १०२ ॥
ऊरुमध्यपरीणाहः कार्यः षट्त्रिंशदङ्गुलः ।
आणिदेशपरीणाहो भवेत् तालद्वयान्वितः ॥ १०३ ॥
क्रमशो हीयमानौ तावूरू कार्यों विचक्षणैः ।
अरोमकौ वलीशून्यौ रम्भास्तम्भकृतोपमौ ॥ १०४ ॥
श्लक्ष्णौ मनोहरौ वृत्तौ पुंसां वा युवतीषु वा ।
ततस्तु जानुनी कार्ये चतुरङ्गुलमायते ॥ १०५ ॥
अङ्गुलत्रयविस्तारे तत्पार्श्वौ द्विकलौ मतौ ।
परिणाहोऽपि तस्य स्यादाङ्गुलान्येकविंशतिः ॥ १०६ ॥
पश्चाद्भागे मनाङ् निम्ने मध्ये किञ्चित्समुन्नते ।
जङ्घामूलपरीणाहो भवेत् षोडशमात्रकः ॥ १०७॥
इन्द्रवस्तिपरीणाहो भवेदष्टादशाङ्गुलः ।
तिर्यक्सूत्रं समं पार्ष्णोरङ्गुलं समुदाहृतम् ॥ १०८ ॥
पार्ष्णिदेशस्य विस्तारो भवेत् पञ्चभिरङ्गुलैः ।
भागमात्रात् तलादूर्ध्वं पार्ष्णितो भागतः पुरः ॥ १०९ ॥