सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 57, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 57

३८ शिल्परत्ने [उत्तरभाग.

कनिष्ठिकामूलपर्व त्रयोदशयवं स्मृतम् ।
मूलाग्रपर्वयोर्मध्यं दीर्घं मध्यस्थपर्वसु ॥ ३८ ॥
अङ्गुष्ठं तु द्विपर्वाढ्यं शेषास्त्रिपर्वसंयुताः ।
सार्धभूताङ्गुलं तत्र तलेऽग्रविपुलं भवेत् ॥ ३९ ॥
रसांशं मध्यविस्तारं मूले सार्धषडंशकम् ।
अङ्गुष्ठमूलात् तर्जन्या मूलं सार्धत्रिभागतः ॥ ४० ॥
अङ्गुष्ठमूलाद् वेदांशं मणिबन्धान्तमेव हि ।
अध्यर्धांशं घनं पाणितले पाष्णौ त्रिपार्श्वकम् ॥ ४१ ॥
तलाग्रे वाङ्गुलं कुर्याद् घनं सर्वेषु सम्मतम् ।
अङ्गुलीनामधस्तात् तु मांसलं त्वर्धमात्रतः ॥ ४२ ॥
द्विभागं पार्ष्णिहस्तस्य शुक्लोदरविशालकम् ।
शेषं मध्यतलं निम्नं भूतवेदाग्निभिर्यवैः ॥ ४३ ॥
सूक्ष्मरेखा लिखेत् तस्मिन् यवाभाश्चक्रशूलवत् ।
पद्माभं वाङ्कुशाभं वा यूकागाधतलान्वितम् ॥ ४४ ॥
वृत्ताभापेक्षिताङ्गेषु व्यासे पञ्चविभाजिते ।
एकांशं परिगृह्यात्र विस्तारत्रिगुणान्वितम् ॥ ४५ ॥
तत्तदङ्गपरीणाहं सुमतिः सम्प्रकल्पयेत् ।
कर्णोर्ध्वे शिरसो नाहं साष्टत्रिंशाङ्गुलं भवेत् ॥ ४६ ॥
कर्णोर्ध्वे तु शिरस्तारं यवोनद्वादशाङ्गुलम् ।
कर्णयोः पूर्वेनाहं तु द्वाविंशद्भिरथाङ्गुलैः ॥ ४७ ॥
कर्णयोः पृष्ठनाहं तु भान्वङ्गुलमुदाहृतम् ।
तयोर्मध्यस्थमार्गं तु कर्णस्थितिरुदाहृता ॥ ४८ ॥