सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 56, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 56

[Header] उत्तमदशतालम् ] पञ्चमोऽध्यायः । ३७

तत्तदङ्गुलविस्तारं वेदास्रैर्दिस्रजेत् पुरः ।
त्रिभागमङ्गुलाग्रोच्छ्रायं तद्वृत्तं च बहिरे ॥ २७ ॥
त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् ।
सपादसप्तभागं तु कूर्परो व्यासमुच्यते ॥ २८ ॥
पादोनरसभागं तु प्रकोष्ठे व्यासविस्तृतिः ।
पादोनचतुरंशं तु मणिबन्धविशालकम् ॥ २९ ॥
सप्तांशं तत्तलायामं सार्धाङ्घ्रिर्मध्यमाङ्गुलिः ।
सपादभूतभागं ह्यप्यनामिकाङ्गुलायतम् ॥ ३० ॥
यवसंयुक्तपञ्चांशं तर्जन्यङ्गुलिकायतम्
सपादवेदभागं तु दीर्घमन्याङ्गुलद्वये ॥ ३१ ॥
अङ्गुष्ठमूलविस्तारं सपादांशमुदाहृतम्
तर्जनीमूलमेकांशं मध्यायां यवनन्दकम् ॥ ३२ ॥
अनामिका तर्जनीवत् कनिष्ठा षड्यवोन्निता ।
तत्तन्मूलविशालस्य षोडशांशविवर्जितम् ॥ ३३ ॥
तत्तदग्रविशालं तु तत्तारे रसभाजिते ।
पञ्चांशं नखविस्तारं शिष्टार्धं पार्श्वमांसलम् ॥ ३४ ॥
सपादतारं सर्वेषां नखानामायतं तथा ।
वृत्तायतं नखाकारं करयोः पादयोस्तथा ॥ ३५ ॥
नखद्विगुणमानं तदग्रपर्वायतं तथा ।
अङ्गुष्ठमूलपर्वस्य दीर्घं सप्तदशैर्यवैः ॥ ३६ ॥
तथैवाष्टादशयवैर्मध्यमामूलपर्वकम् ।
तर्जन्यनामिकामूलपर्वं षोडशभिर्यवैः ॥ ३७ ॥