शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 58, कुल 280 में से
संदर्भ में पढ़ेंउत्तमदशतालम् ] पञ्चमोऽध्यायः । ३९
शिरसो मध्यमान्मूर्ध्नि मण्डलं चतुरङ्गुलम् ।
तथैवोदग्रकेशान्तं नवाङ्गुलमुदाहृतम् ॥ ४९ ॥
ततो वै मण्डलात् कर्णं केशान्तं च नवाङ्गुलम् ।
मण्डलात् पृष्ठकेशान्तं सार्धधर्पाङ्गुलं स्मृतम् ॥ ५० ॥
ललाटे कीर्तिमानं १ तु नवाङ्गुलमुदाहृतम् ।
केशान्तस्याक्षिसूत्रस्य द्वयोर्मध्ये ह्यवस्थितम् ॥ ५१ ॥
भ्रुवोरग्रं नवाङ्गुल्यं चापाकारं यथा कुरु ।
अन्तरं तु भ्रुवोश्चैव सार्धवेदयवं भवेत् ॥ ५२ ॥
पञ्चाङ्गुलं भ्रुवोर्दीर्घं मध्ये तारं यवद्वयम् ।
प्रतिपच्चन्द्रवत् क्षीणौ भ्रुवाग्रौ तस्य मध्यमात् ॥ ५३ ॥
कनीनिकाया विस्तारं यवमानं विशेषतः ।
कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत् ॥ ५४ ॥
सितांशं तत्समव्यासं कृष्णमण्डलपार्श्वयोः ।
शफराकृतिकं वापि सरोजाकृतिमेव वा ॥ ५५ ॥
अर्धचन्द्राकृतिर्वापि नेत्राकारं प्रकल्पयेत् ।
तत्तारकानुकूल्योच्चं सितमण्डलकस्य हि ॥ ५६ ॥
अर्धनेत्रयवं रक्तं मण्डलं त्वधिकांशके ।
कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलकं यवम् ॥ ५७ ॥
तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् ।
सार्धभूयवमानं तदूर्ध्वपक्ष्मविशालकम् ॥ ५८ ॥
अथ पक्ष्मयवैस्तुल्यं दीर्घमष्टादशैर्यवैः ।
नेत्रयोरन्तरं कुर्यात् सपादद्व्यंशमानतः ॥ ५९ ॥
१. 'कार्यमा' क. ग. पाठः.