शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 202, कुल 280 में से
संदर्भ में पढ़ेंपीठलक्षणम् ] सप्तविंशोऽध्यायः । १८३
अथ पीठं —
बिम्बे बिम्बोच्छ्रयसममथायामविस्तारयुक्तं
स्वव्यासाधोच्छ्रयपरिगतं च प्रकुर्वीत पीठम् ।
लिङ्गव्यासत्रिगुणिते १ क्याततिभ्यां समेतं
लिङ्गे स्वाष्टाश्रक-समचतुरस्रोच्छ्रायि तुर्यश्ररूपम् ॥ ४ ॥
पूजांशाद्विगुणं हीनं श्रेष्ठं लिङ्गाननेः समम् ।
नवैते लिङ्गविस्तारास्तयोर्मध्येऽष्टभाजिते ॥ ५ ॥
विस्ताराधोच्छ्रयं नीचं श्रेष्ठं द्वित्र्यंशकं २ ततः ।
विष्कम्भत्रिगुणं वाथ नाहतुल्यं विशालकम् ॥ ६ ॥
गर्भव्यासत्रिभागैकं चतुर्भागैकमेव वा ।
विष्कम्भकर्णां ३ स्त्रिगुणं द्विगुणं वापि विस्तृतम् ॥ ७ ॥
पीठं कुर्यात्तु विष्ण्वंशसमानोच्चं हि सर्वथा ।
मण्डनाय स्वविस्तारादष्टांशमधिकं ततः ॥ ८ ॥
सर्वेषामपि पीठानां जन्मान्तं मूलविस्तृतिः ।
पीठाग्रस्य च विस्तारः स्यान्महापट्टिकान्तकम् ॥ ९ ॥
नागरादित्रयाणां तु पीठलक्षणमुच्यते ।
त्रिखण्डलिङ्गायामेन तुल्यव्यासमिहोत्तमम् ॥ १० ॥
इत्यादिपूर्वगदितैर्नवकं नागरे स्मृतम् ।
वेसरेऽप्युत्तमं त्वेवं ४ नीचे तन्नवसप्तकम् ॥ ११ ॥
तयोर्मध्येऽष्टधा भक्त्वौ ५ पीठव्यासा नव स्मृताः ।
अष्टांशे ब्रह्मविष्ण्वंशे त्रिद्व्येकांशमधस्त्यजेत् ॥ १२ ॥
१. 'णकवि' ख. पाठः. २. 'त्र्यं', ३. 'तं', ४. 'चै',
५. 'ङ्क्त्वा' ग. पाठः.