सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 201, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 201

१८२ शिल्परत्नं [उत्तरभागः
यस्या विभाव्यते स्त्रीणामाधिपत्यं लभेत सा ।
पद्मरेखा करे वामे या विरती¹ वराङ्गना (?) ॥ ८४ ॥
इत्यादिलक्षणं युक्त्या बिम्बे चैव निरूप्यताम् ।
यदुक्तं तत्फलं सर्वं तत्र + + + देऽिदम् ॥ ८५ ॥
इति शिल्परत्ने उत्तरभागे बिम्बदोषलक्षणं नाम
षड्विंशोऽध्यायः ॥
अथ सप्तविंशोऽध्यायः ।
अथ पीठादिलक्षणम् ।
तत्र पूर्वं पद्मपीठं —
पद्मं तालसमुच्छ्रयं द्विगुणविस्तारं च षोढा कृते
मूले पट्टमिलांशतो द्वितयतोऽस्याधस्तनाष्टच्छदम् ।
अङ्घ्र्यूनप्रथमब्जमध्यमुपरिष्टादष्टपत्रं त्रिभि-
र्भागैः पट्टयुतं करोतु कमलेनामात्र पीठोच्छ्रयः ॥ १ ॥
आसने शयनादौ तु तत्तद्योग्यविशालकम् ।
वृत्तं वायतवृत्तं वा पद्मं कुर्याद् यथोचितम् ॥ २ ॥
अथ नालः —
विंशत्या प्रतिमाङ्गुलैः प्रविततं वृन्ते तया सैकया
नालं सद्वितयापिवाथ विततेरष्टाचलाङ्गांशकैः ।
अन्ते हीनवितानमारचयतु ब्रह्मोपलान्तायतं
तुर्यश्रं सकलेषु वैधसमिदं वृत्तं कचिच्चैश्ररम् ॥ ३ ॥
१. 'विचीव व' ख. पाठः.