शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 203, कुल 280 में से
संदर्भ में पढ़ें१८४ शिल्परत्न [उत्तरभागः
शेषमानं तु नीचाङ्घ्रि पीठोच्चं द्राविडे मतम् ।
अथ वेसरलिङ्गस्य ह्यष्टांशे परिणाहके ॥ १३ ॥
मुख्यं हि तत्समं व्यासं जात्यंशैशस्तथा समम् ।
विष्णुतुल्योच्छ्रयं तैनं व्यास चतुर्धीसाधिकं तु वा ॥ १४ ॥
सर्वेषामपि लिङ्गानां पीठं स्याद्गलशोभितम् ।
पीठमूलस्य विस्तारं शृणुष्व द्विजपुङ्गवैः ॥ १५ ॥
हीनः पीठाग्रविस्तारो हीने मध्ये तथोत्तमे ।
नागरादित्रयं पीठं क्रमेण सुरामाहितम् ॥ १६ ॥
चतुरश्रं च त्वष्टाश्रं वृत्तं चेतत् त्रिधा मतम् ।
पीठं निष्कललिङ्गानां विज्ञेयं सर्वतः समम् ॥ १७ ॥
आयतं प्रतिमानां स्यात् सकले वार्थचन्द्रकम् ।
चतुर्दशांशे पीठोच्चे भागात् स्यान्मूलपट्टिका ॥ १८ ॥
पद्मं त्रिभिर्धृष्टगन्धांशमर्धेनाब्जं नतो भवेत् ।
वृत्तं व्यंशं पुनः पद्माधर्धसार्धेन कम्पकम् ॥ १९ ॥
सार्धद्वयंशेन कण्ठोच्चमर्धेनोर्ध्वाम्बुजं स्मृतम् ।
अर्धेन कम्पो व्यंशः स्यात् क्रमेणैवोर्ध्वपट्टिका ॥ २० ॥
कम्पाज्यधारिण्यर्धेन स्यादेवं मेरुसुन्दरम् ।
अष्टादशांशे पीठोच्चे जन्म व्यंशमिहोदितम् ॥ २१ ॥
चतुर्भिर्जगतीं कुर्यात् कुमुदं त्रिभिरेकतः ।
कम्पं कण्ठमथैकेन स्त्रक्पाशादब्जमन्ततः ॥ २२ ॥
वृत्तं चतुर्भिस्त्वंशेन पद्ममर्धेन कम्पकम् ।
त्रिभिः कण्ठं तथांशेन वाजनं त्वथ भागतः ॥ २३ ॥
१. 'तस्य चतु' ग. पाठः.