सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 200, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 200

विम्बदोषाः ] षड्विंशोऽध्यायः १८१
ऊरू कृशौ रोमशौ वा यस्याः स्यातां सुभाषिणि ।
भर्तारं त्वरितं हन्ति विशेषेणापि वर्जिता । ७३ ॥
अश्वत्थदलसङ्काशं गुह्यदेशं विदुर्बुधाः ।
यस्याः सा सुभगा कन्या लब्ध्वा दुर्गत्यवाप्नुयात् ॥ ७४ ।
नितम्बबिम्बमृदु दृष्टं¹ किञ्चिद्गौरं श्लक्ष्णमपि स्त्रियाः ।
मध्यं वलित्रयोपेतं कृशं शुभमरोमशम् ॥ ७५ ॥
स्तनौ वृत्त(स्त ? घ)नौ चान्तावुभौ रोमविवर्जितम् ।
ग्रीवा रेखात्रयोपेता विम्बाकारोऽधरोऽधरः ॥ ७६ ॥
ग्रीवया स्थूलया चण्डी दरिद्रा ह्रस्वया तया ।
कुलस्य नाशिनी निम्नदीर्घया जायते पुनः ॥ ७७ ॥
श्मश्रुभिः सहिता कन्या विप्रश्रवणा च या !
सा विरुद्धा भवेद् भर्तुरुत्तरोष्ठे तथोन्नता ॥ ७८ ॥
विषमा दशना यस्या विरलाः स्थौल्यभागिनः ।
पूर्वाचार्यैः परिज्ञेया सर्वक्लेशकरी परा ॥ ७९ ॥
द्वितीयचन्द्रसङ्काशभ्रूयुगं समानासिका ।
ऋज्वङ्गुलीका रमणी पत्युः संपत्करी सदा ॥ ८० ॥
पार्श्वे गले ललाटे वा वामतौला(लध ? च्छ)नान्विता ।
तस्मिंस्तिलकिता चापि जनयेत् प्रथमं सु(ख ? त)म् ॥ ८१ ॥
प्रसन्नवदना राज्ञी लम्बकेशी तपस्विनी ।
दुःखिताबहुकेशी स्यात् सामुद्रमतमीदृशम् ॥ ८२ ॥
कोष्ठाब्जकलशाकारा रेखा यस्यास्तथैव च ।
तोरणं स्वस्तिकं चक्रं करे बाहुतलेऽपिवा ॥ ८३ ॥
१. ‘दिष्टं’ ग. पाठः.