शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 199, कुल 280 में से
संदर्भ में पढ़ें१८० शिल्परत्न [उत्तरभागः
आका(रा ? गे) जायते पाणौ रेखया वक्ररूपया ।
शङ्खातपत्रशिबिकागजपद्माश्वसं(स्विमिः ? निभः) ॥६३॥
चक्रवर्ती भवेद् राजा जायते नास्ति संशयः ।
गवाढ्यो दामरूपाभिः स्वस्तिकाकृतिभिर्धनी ॥ ६४ ॥
चक्रखड्गधनुःप्रासतोमराकृतिभिर्नृपः ।
अङ्गुष्ठमूलरेखाभिः (स्थूलाभिः) पुत्रवान् भवेत् ॥ ६५ ॥
तत्रत्यसूक्ष्मरेखाभिः कन्यां जनयति ध्रुवम् ।
प्रदेशिनीतलं प्राप्तरेखाः स्युः शतजीविनः ॥ ६६ ॥
न्यूनाभिश्छन्नरूपाभिर्द्रुमपाताद् भवेन्मृतिः ।
अरेखा बहुरेखाश्च मानवा धनवर्जिताः ॥ ६७ ॥
नखा दन्ता रोमकेशव्योमच्छायाः(?) सुखप्रदाः ।
समन्ताद् भूमिसंलग्नं यस्याश्चरणयोस्तलम् ॥ ६८ ॥
अष्टौ पुत्रान् प्रसूते सा पत्युः सन्तानवर्धना(त् ? न्) ।
अङ्गुष्ठं समतिक्रम्य दीर्घा यस्याः प्रदेशिनी ॥ ६९ ॥
संरक्षितापि यत्नेन सा भवेद् व्यभिचारिणी ।
दीर्घा स्यान्मध्यमा यस्याः सर्वा वा चरणाङ्गुली ॥ ७० ॥
दुःशीला दुर्भगा नित्यं सा कन्या निन्दिता बुधैः ।
काकजङ्घा च या नारी या च रोमशजङ्घिका ॥ ७१,॥
अचिरेण परिज्ञेयं वैधव्यमुभयोस्तयोः ।
अंसौ च पृथुलौ यस्याः सा दासी समुदाहृता ॥ ७२ ॥
१. 'साविमः', २. 'दा' ग. पाठः.