शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 130, कुल 280 में से
संदर्भ में पढ़ेंशैवे गजहा ।] द्वाबिंशोऽध्यायः । ११
हिरण्यकरकेणापः पूर्वहस्तद्वयेन तु ।
संगृह्य वरदे हस्ते दद्यादुदकपूर्वकम् ॥ १०० ॥
अष्टलोकेशविद्येशाः सिद्धयक्षगणादयः ।
ऋषयश्चैव गन्धर्वा मातरश्चान्यदेवताः ॥ १०१ ॥
तत्तच्छक्तिसमोपेता हृदयाञ्जलिसंयुताः ।
संभ्रान्तमनसोपेताः संवीक्ष्य परितः स्थिताः ॥ १०२ ॥
अर्धनारीश्वरं वक्ष्ये सुस्थितं दक्षिणाङ्घ्रिकम् ।
कुञ्चितं वामपादं तु सर्वाभरणभूषितम् ॥ १०३ ॥
वामार्धं पार्वतीरूपं दक्षिणार्धं महेश्वरम् ।
अभयं परशुं दक्षहस्ते वामगतं भुजम् ॥ १०४ ॥
वृषस्य मूर्ध्नि विन्यस्तकोर्परं चारु सुन्दरम् ।
पुष्पधृक्कट कं त्वन्यं चतुर्भुजमिदं स्मृतम् ॥ १०५ ॥
गजहामूर्तिनं वक्ष्ये सर्वाभरणभूषितम् ।
पाशं च गजचर्म च दक्षपार्श्वकरद्वये ॥ १०६ ॥
गजस्य शृङ्गं चर्म च वामपार्श्वे करद्वये ।
शूलं डमरुकं पाशं गजचर्म च दक्षिणे ॥ १०७ ॥
गजशृङ्गं कपालं च पाशं चर्म च वामतः ।
शम्भोर्वामाङ्घ्र्यधस्तात्तु गजमस्तकमेव हि ॥ १०८ ॥
मकुटस्योपरिष्टात्तु गजपुच्छं प्रकल्पयेत् ।
पार्श्वयोर्गळपादं तु यथायुक्त्या तु कारयेत् ॥ १०९ ॥
प्रभामण्डलवच्छ्लेषं गजचर्म प्रकल्पयेत् ।
व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् ॥ ११० ॥