शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 131, कुल 280 में से
संदर्भ में पढ़ें११२ शिल्परत्न [उत्तरभागः
सर्वाभरणसंयुक्तमतिरक्तप्रभान्वितम् ।
सुस्थितं वामपादं तु गजवीरस्य मस्तके ॥ १११ ॥
उद्धृतं दक्षिणं पादं कक्षसूत्रान्तमाचरेत् ।
गौरी स्कन्दं समुद्धृत्य शम्भोर्वामे भयान्विता ॥ ११२ ॥
अथवा शूलखड्गौ च गजदन्तं च चर्म च ।
दक्षिणे वामतः कुर्यात् कपालं खेटकं पुनः ॥ ११३ ॥
घण्टा च गजचर्म च करैरिति + वामतः ।
अथ पाशुपतं वक्ष्ये चन्द्रशेखरवत् स्थितम् ॥ ११४ ॥
चतुर्भुजं त्रिनेत्रं चाप्यूर्ध्वकेशं महातनुम् ।
दक्षिणेऽभयकं शूलं कपालं वरदं परे ॥ ११५ ॥
प्रवालसदृशप्रख्यं सर्वाभरणभूषितम् ।
कङ्कालमूर्तिनं वक्ष्ये पादयोः पादुकान्वितम् ॥ ११६ ॥
सुस्थितं वामपादं तु गमनापेक्षयापरम् ।
पादमीषत् समुद्धृत्य करोत्यधिकसुन्दरम् ॥ ११७ ॥
शुद्धश्वेतनिभं चारु सर्वाभरणभूषितम् ।
रत्नकञ्चुकबद्धाङ्गं जटामकुतमण्डितम् ॥ ११८ ॥
धुर्धूरपुष्पं नागं च वामे दक्षेन्दुशेखरम् ।
किञ्चित्प्रकाशितान्तःस्थदशनांशुविराजितम् ॥ ११९ ॥
दक्षिणं हरिणीवक्त्रे व्यापितं सिंहकर्णवत् ।
वामहस्ते च दण्डं तु कङ्कालास्थि च धारयेत् ॥ १२० ॥
तदस्थ्याकृति निर्मांसं द्विपादं द्विकरान्वितम् ।
कृष्णश्यामनिभाकारमपाने दण्डवेशनम् ॥ १२१ ॥