सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

१२० षड्विंशब्राह्मणम्
खनननाद्दहनादभिमर्शनाद् गोभिराक्रमणाच्च चतुर्भिः
शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ ४ ॥
खननात् कुद्दालादिभिः । दहनादग्निना । अभिमर्शनात् मन्त्रपूर्वकं
हस्तेन । गोभिराक्रमणाच्च इत्येतैः खननादिभिः चतुर्भिः भूमिः शुध्यते ।
तथा पञ्चमात् गोमयेनोपलेपनात् भूमिः शुध्यत इत्यनुषङ्गः ॥ ४ ॥
सामगानानन्तरं किं कुर्यादित्यत आह—
संभारान् प्रदक्षिणमानीय ब्राह्मणान् स्वस्ति
वाच्य ॥ ५ ॥
ततः संभारान् प्रागुक्तान् दर्भादीन् होमसंभारान् प्रदक्षिणं यथा
भवति तथा होमसमीपदेशमानीय ब्राह्मणानुपवेश्य स्वस्ति वाच्य पुण्याहवाचनं
कृत्वा कर्म समापयेदिति शेषः ॥ ५ ॥
संभाराणां मध्ये कस्यचिदुपहतौ तस्याभ्युक्षणं शुद्धिहेतुत्वेन विधत्ते—
एतैः संभारैर्यदुपस्पृष्टं तदभ्युक्षेत् । शाम्यति
हातः ॥ ६ ॥
एतैः यथोक्तैः संभारैः यदुपस्पृष्टम् उपहतं तद् द्रव्यम् अभ्युक्षेत्
स्वस्तिदा विशस्पतिः (ऋ. वे. १०.१५२.२) इत्यादिः स्वस्तिवाचनमन्त्रैः ।
अतः अभ्युक्षणादुपहतिदोषः शाम्यत्येव ॥ ६ ॥

३. J. कुठारा० for कुद्दाला०.
४. RI. add च after हस्तेन ˙ RI. transp. खननादिभिः
after शुध्यते.
६. RJ. अत्र for अतः
९. M. तत् for ततः; M. प्रागुक्तादीन् for प्रागुक्तान् .
११. M. कर्मावसेत् for कर्म समापयेत् .
१२. J. कैश्चित् for कस्यचित् ; RI. ०हतस्य for ०हतौ तस्य.
१५. RI, om. द्रव्यम् .

षष्ठोऽध्यायः (१०) १२१
नैमित्तिकहोमाङ्गत्वेन ब्राह्मणभोजनं दक्षिणां च दर्शयति—
ब्राह्मणभोजनं हिरण्यं गौर्वासोऽश्वो भूमिर्दक्षिणा
इति । शाम्यति हातः । शान्त्यर्थः शान्त्यर्थः ॥ ७ ॥
होमानन्तरं ब्राह्मणभोजनम् । भुजेर्ण्यन्ताल्ल्युट् । ब्राह्मणान् भोजयेदि-
त्यर्थः । तथा तस्मिन् होमे हिरण्यं कनकं गौश्च वासश्च अश्वो भूमिरिति
चैता दक्षिणाः सुवर्णादिकमृत्विग्भ्यो दद्यात् । अतः एवं साङ्गहोमानन्तरम्
अद्भुतादिसूचितो दोषः शाम्यत्येव । यथोक्तषष्ठाध्यायप्रतिपादितः एष होमः
शान्त्यर्थः । ऐन्द्राद्यद्भुतसूचितदुरितापूर्वशान्त्यर्थः । द्विरुक्तिरादरार्था ।
अध्यायसमाप्तिद्योतनार्था च ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये दशमः खण्डः ॥ १० ॥

  1. M. दक्षिणाश्च for दक्षिणां च.
  2. M. हाथो for हातः.
  3. J. होमानन्तरं for भुजेर्ण्यन्ताल्ल्युट् .
  4. JM. वासः for वासश्च.
  5. RI. after दद्यात् add ऋत्विजो ब्राह्मणाश्च भोज्या इत्यर्थः;
    J. अथो for अतः.
  6. RI. ०सूचितदोषनिर्हरणरूपशान्त्यर्थः । शान्तिकरणप्रयोजनं सिध्य-
    तीति शेषः for ०सूचितो दोषः...यथोक्त०; JM. adds एषः before यथोक्त ;
    RI. षष्ठाध्याये for षष्ठाध्याय०; M. षष्ठाध्यायोदितः for षष्ठाध्यायप्रतिपादितः.
  7. RI. अद्भुतशान्ति० for अध्याय०.
  8. M. Concludes with: इति दशमः खण्डः । षष्ठोऽध्यायः । माधवीये
    सायणाचार्यविरचिते षड्विंशब्राह्मणभाष्यं संपूर्णम् । हरिः ॐ । श्रीगुरुभ्यो नमः ।
    श्रीदक्षिणामूर्तये नमः; J. ०विंशेऽद्भुतब्राह्मणे षष्ठाध्यायस्य for षड्विंशब्राह्मणभाष्ये
    षष्ठाध्याये.
  9. J. after दशमः खण्डः । adds वेदार्थस्य प्रकाशेन तमो हार्दं
    निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ श्रीमद्राजाधिराजपरमेश्वरवैदिक-
    मार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये
    वेदार्थप्रकाशे द्वितीये षड्विंशब्राह्मणव्याख्याने षष्ठाध्यायः समाप्तः ॥

एकादशः खण्डः
अथ रुद्रदेवत्याद्भुतविशेषे होमविशेषं दर्शयितुं पृथिव्या अधस्ताद्दिशो
निरीक्षणपूर्वकमावर्तनं दर्शयति—
सोऽधस्ताद्दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणाद्भुतविशेषवानधिकारी पृथिव्या अधस्ताद्दिशमन्वीक्ष्य
मनसा ध्यात्वावर्तते । होमार्थं प्रवर्तते । रुद्रस्य सर्वलोकाधारकत्वेनाधोभूम्या
दिशो वक्ष्यमाणानामद्भुतानां च रौद्रत्वाविशेषात् ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य गवां मानुषमहिष्यजाश्वोष्ट्राः
प्रसूयन्ते, हीनाङ्गान्यतिरिक्ताङ्गानि विकृतरूपाणि वा
जायन्ते, असंभवानि संभवन्ति, अचलानि चलन्ति इत्येव-
मादीनि तान्येतानि सर्वाणि रुद्रदेवत्यान्यद्भुतानि
प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य पुरुषस्य मानुषं मनुष्यत्वं मनुष्यरूपवत्संजनकत्वम् ।
गावो मनुष्यान् प्रसूयन्त इति यावत् । तथा महिष्यजाश्वोष्ट्राः प्रसूयन्ते ।
हीनाङ्गानि अङ्गहीनानि [अतिरिक्ताङ्गानि] अधिकाङ्गानि द्विशीर्षत्वादीनि
षडङ्गुलत्वादीनि जन्तुरूपाणि स्वजात्यननुरूपाधिकाङ्गयुक्तानि वा जायन्ते ।
असंभवानि शशविषाणप्रायाणि संभवन्ति जायन्ते । असूयानि कन्याजरठ-
बन्ध्यादीनि असूयन्ति प्रसूयन्ते प्रजाः । अबलानि असमर्थानि समर्थीभवन्ति ।
2. J. om. अथ...दर्शयति ; J. has only text and no commentary.
9. RI. महिषी अजा० for महिष्यजा०
17. R. ०जात्यानु for ०जात्यननु०
18. असूयानि See CN.

षष्ठोऽध्यायः (११) २२३

यद्वा—अचलानि पर्वतादीनि चलन्ति । इत्येवमादीनि अद्भुतानि
सर्वाणि रुद्रदेवत्यानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
इदानीं तज्जन्यदुरितापूर्वनिर्बर्हणसाधनं होमविशेषं सेतिकर्तव्यताकं
दर्शयति—
आ वो राजानम् (सा. ६९) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । रुद्राय स्वाहा, पशुपतये
स्वाहा, शूलपाणये स्वाहा, ईश्वराय स्वाहा, सर्वपाप-
शमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम गायेत् ॥ ३ ॥
आ⁻ वो³ राजान⁵क मध्व³¹र²स्य³¹ रुद्रँᳵ⁵र होतारँᳵ सत्ययजँᳵ³²³ रोदस्योः¹² ।
अग्निं³² पुरा³¹ तनयि²त्नोर³²चित्ता³²³द्धिरण्यरूप¹²मवसे³¹² कृणुध्वम् ॥ (सा. ६९) इत्येषा
ऋक् । अन्यत् पूर्ववद्व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
षष्ठाध्याये एकादशः खण्डः ॥ ११ ॥


२. R. ॰दैवत्यानि for देवत्यानि.

द्वादशः खण्डः
अथ सूर्यदेवत्याद्भुतविशेषे होमविशेषं दर्शयितुमादौ सर्वदिङ्निरीक्षण-
पूर्वकमावर्तनं दर्शयति—
स सर्वा दिशमन्वावर्तते ॥ १ ॥
स वक्ष्यमाणनिमित्तविशेषवान् सर्वा दिशोऽन्वीक्ष्य होमार्थमावर्तते
प्रवर्तते । सर्वासां दिशां निमित्तानां वक्ष्यमाणानां सूर्यसंबन्धाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य मानुषाणामतिधृतिम(र?)तिदुःखं वा
पर्वताः स्फुटन्ति, निपतन्त्याकाशाद्, भूमिः कम्पते, महाद्रुमा
उन्मूलन्ति, अश्मानः प्लवन्ति, तटाकानि प्रज्वलन्ति,
चतुष्पादं पञ्चपादं वा भवन्ति इत्येवमादीनि तान्येतानि सर्वाणि
सूर्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य पुरुषस्य देशे मानुषाणामतिधृतिम(र?)तिदुःखमति-
गर्वित्वम् अतिदुःखं वा । पर्वताः फुटन्ति एकदेशे विदीर्यन्ते ।
आकाशाच्च पर्वता निपतन्ति भूमौ । भूमिश्च यावत्स्वदेशं कम्पते ।
पूर्वमावासमात्रभूचलनमुक्तमिति न पौनरुक्त्यम् । महाद्रुमा उन्मूलन्ति समूलाः
8. Sh. ईति० for अति०
10. RJ. उन्मीलन्ति, IMS. उन्मलन्ति for उन्मूलन्ति.
11. J. भवति for भवन्ति.
13. R. om. देशे...पर्वता० (L. 15); I. (इ)ति for (अ)ति; See CN.
16. I. उन्मलन्ति, R. उन्मीलन्ति for उन्मूलन्ति; RI. add
विनाशकारणं before समूलाः.

षष्ठोऽध्यायः (१२)

पतन्ति । अश्मानः स्थूला आपे प्लवन्ति । पूर्वं स्वल्पपरिमाणानां प्लवन-
मुक्तम् । तटाकानि प्रज्वलन्ति । जलाशया ज्वालायुक्ता इव दृश्यन्ते । चतुष्पादं
प्राणिजातं पञ्चपादं षट्पादं वा भवन्तीत्येवमादीनि सर्वाण्यद्भुतानि
सूर्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
इदानीं तद्धेतुकदुरितापूर्वकनिरसनाय होमं सविध्यन्तरं दर्शयति—
उदु त्यं जातवेदसम् (सा. ३१) इति स्थालीपाकं
हुत्वा पञ्चभिरान्याहुतिभिरभिजुहोति । सूर्याय स्वाहा,
सर्वग्रहाधिपतये स्वाहा, किरणपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वा अथ साम
गायेत् ॥ ३ ॥
<sup>२ ३</sup>उदु <sup>२</sup>त्यं <sup>३</sup>जा<sup>१ २</sup>तवेदसं <sup>३ १ २</sup>देवं वहन्ति <sup>३ १ २

RASHTRIYA SANSKRIT SANSTHAN
Delhi.
Kendriya Sanskrit Vidyapeetha, Tirupati Series No. 9)
ṢAḌVIṀŚA BRĀHMAṆA
WITH
VEDARTHAPRAKASA OF SAYANA
Critically Edited by
BELIKOTH RAMACHANDRA SHARMA, M.A., Ph.D.
Former Director
Kendriya Sanskrit Vidyapeetha
TIRUPATI
[लाञ्छनम्: योऽनूचानः स नो महान् / राष्ट्रियसंस्कृतसंस्थानम्]
KENDRIYA SANSKRIT VIDYAPEETHA
TIRUPATI
1983 Rs 41 = 00