षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 9, कुल 226 में से
संदर्भ में पढ़ेंरूपेण स्पशः सन् चराणीति । तदनुमन्यतां भवानिति । पुनर्गौतमो ब्रवीति
हे इन्द्र त्वं यथा येन प्रकारेण चरितुं मन्यसे तथा चरेति । पश्चादिन्द्र-
स्तथैवाचरदिति शेषः । स इन्द्रः तत् तदानीं गौतमोऽहम् इति स्वयं वदन्
गौतमरूपेण गौतम इति जनैरुच्यमानो वा चचारेति यत् तदेवाचरणमाह
गौतमइति । गौतमब्रुवाणेति पदस्य एकदेशोपादानम् ॥ २५ ॥
प्रतीकतः निगदशेषमुपादत्ते—
इत्यहे सुत्यामागच्छ मघवन्निति ॥ २६ ॥
हे मघवन् धनवन् इन्द्र इत्यहे एतावदहे द्व्यहे त्र्यहेऽतिक्रान्ते
सुत्यामागच्छ । परेद्युः सुत्या चेत् श्वः सुत्यामागच्छेत्यादेशः कार्यः । तथा च
जैमिनिः—श्वः सुत्यामित्यौपवसथ्ये निर्दिशेत् इति । सुत्यया समानेऽहनि तु
अद्य सुत्यामागच्छेत्यादेशः कार्यः । तथा द्राह्मायणः—अद्येति समानाहनि
(ला. श्रौ. १. ३. २) इति ॥ २६ ॥
यत्तद्व्याचष्टे—
तद्यथार्हतो ब्रूयादित्यहे वः पक्तास्मि तदागच्छते-
त्येवमेवैतद्देवेभ्यः सुत्यां प्राह ॥ २७ ॥
उपलक्षणमेतत् । तत् तत्र यथार्हतो यथायोग्यं ब्रूयात् । तस्यैव
विवरणम्—इत्यहे एतावदहे द्व्यहे त्र्यहे वा देयाः वः युष्मदर्थं हविषां
- Bh MTS स्पर्शः for स्पशः; BJA ०गौ० for ०गौ०.
- R. om. यथा.
- RMTSI om. स इन्द्रः; R. om. स्वयं वदन्, M. om. स्वयं
- MK तत्तदेव० for तदेव०.
- K. ०ब्राह्मणेति वदन् तस्य for ब्रुवाणेति पदस्य; Bh TA पदम्
for पदस्य; JA add एकदेशः before एकदेशोपादानम् . - JA प्रतीते. ।, Bh. प्रतीतिः for प्रतीकतः
- K. धनप for धनवन्; Bh JA. त्र्यहे द्व्यहे for द्व्यहे त्र्यहे.
- RJA add अहनि after ०सथ्ये See CN. ; ABh J. om. इति ;
R. सुत्यायाः for सुत्यया; Bh JA आगमने for समाने. - R BBh T समानेऽ for समाना०
- R. इतरत्र for तत् तत्र; Bh JSA om. तत्.
- Bh TJA त्र्यहे द्वयहे for द्व्यहे त्र्यहे; RBJSIA. om. वा.