सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 8, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 8
पृष्ठ 8 स्कैन

८ षड्विंशब्राह्मणम्
भागान्तरमुपादत्ते—
गौतमब्रुवाणेति ॥ २४ ॥
गौतमोऽहमिति ब्रुवाणः । यद्वा । गौतमरूपेण चरन् गौतम इति
जनैरुच्यमानो गौतमब्रुवाणः । ब्रुवतेः कर्तरि व्यत्ययेन कर्मणि शानच् ।
तस्य संबोधनम् गौतमब्रुवाणेति ॥ २४ ॥
तद्व्याचष्टे—
देवासुरा ह संयत्ता आसंस्तानन्तरेण गौतमः
शश्राम । तमिन्द्र उपेत्योवाचेह नो भवान्स्पशश्चरत्विति ।
नाहमुत्सह इति । अथाहं भवतो रूपेण चराणीति । स
यथा मन्यस इति । स यत्तत् गौतमो वा ब्रुवाणश्चचार
गौतमरूपेण वा तदेतदाह गौतमेति ॥ २५ ॥
देवासुरा ह देवाश्चासुराश्च । किम् (!) संयत्ताः परस्परं योद्धु-
मुद्युक्ताः आसन् बभूवुः । तानन्तरेण तेषां मध्ये । अन्तरान्तरेण युक्ते
(पा. २. ३. ४) इति द्वितीया । गौतमो नाम ऋषिः शश्राम श्रान्तः सन्
उपाविशत् । तं गौतममुपेत्य उपगम्य इन्द्रः एवमुवाच । असुराः भवन्तं
बाधेरन् । अत इहैव नः अस्माकं स्पशश्चारो भूत्वा भवान् चरत्विति ।
एनमुक्तवन्तमिन्द्रमृषिराह अहमेवं चाररूपेण वर्तितुं नोत्सहे उत्साहं न
करोमीति । अथ गौतमवचनादनन्तरम् इन्द्रो ब्रवीति । तर्हि अहं भवतो

  1. R Bh JA अथ नामा० for भागा०.
  2. Bh JA om. अहम् ; R. adds गौतमब्रुवाणेति तद्व्याचष्टे after
    यद्वा ; JA add ह after इति ; RJA. गोतम० for गौतम०.
  3. MTSIK ब्रवीतेः for ब्रुवतेः.
  4. K Bh. ह for इह.
  5. T. (आ) ह for (अ)हं.
  6. RBJ गो० for गौ०; Bh T. om. वा.
  7. RBJIA गो० for गौ०.
  8. RBMSI. om. नः; MTS स्पर्श० for स्पश०.
  9. Bh JA (ए)व for (ए).
  10. Bh JA ०वचनानन्तर for ०वचनादनन्तरम् ; Bh A
    ०ऽब्रवीदिति for ब्रवीति.