सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 7, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 7

प्रथमोऽध्यायः (१) ७
इन्द्रः किल गौरमृगो भूत्वा अरण्यादवस्कन्द्य । स्कदिर्गत्यर्थः । राजानं
सोमम् । सोमो वै राजा इति श्रुतेः । पिबति स्म । स वा गौरश्वासाववस्कन्दी
चेति कर्मधारयसमासेन गौरावस्कन्दिन्निति इन्द्रः संबोध्यते ॥ १९ ॥
अंशान्तरमुपादत्ते—
अहल्यायै जारेति ॥ २० ॥
बहुलवचनात् षष्ठ्यर्थे चतुर्थी । अहल्यायाः जारेत्यर्थः ॥ २० ॥
तद् व्याष्टे—
अहल्याया ह मैत्रेय्या जार आस ॥ २१ ॥
इन्द्रः किल मैत्रेय्याः, मित्राया दुहिता मैत्रेयी तस्याः अहल्यायाः
जार उपपतिरास बभूव ॥ २१ ॥
अंशान्तरमुपादत्ते —
कौशिक ब्राह्मणेति ॥ २२ ॥
तद् व्याचष्टे—
कौशिको ह स्मैनां ब्राह्मण उपन्येति ॥ २३ ॥
कौशिकः कुशिकगोत्रोत्पन्नः कश्चिद् ब्राह्मणः एनां प्रकृताम्
अहल्याम् उपन्येति स्म ह । इण् गतौ । लट् स्मे (पा. ३. २. ११८)
इति परोक्षे लट् । उप-नीति उपसर्गौ । उपन्यगच्छत् । उपयेमे किलेत्यर्थः ।
तस्याः जारः सन् तद्भर्तुःस्थाने तिष्ठतीति कौशिक ब्राह्मणेत्युपचारादा-
मन्त्र्यते ॥ २३ ॥

  1. MJS स्कन्दिर्; for स्कदिर् A स्कन्दिर्नस्यार्थः, Bh स्कन्दिनं स्वार्थः.
    for स्कदिर्गत्यर्थः ।
  2. R. यो, Bh MTS वो for वा; JA om. स वा.
  3. R. अर्था० for अंशा०.
  4. Bh. adds सः ofter जारः; T. जारप्रियः for जारः.
  5. Bh MTSI मित्रा for मित्रायाः.
  6. R. अर्था० for अंशा०.
  7. M. कौर्शीक० for कुशिक०; B. om. प्रकृताम् .
  8. R BBh JA लिट् , IS लङ् for लट् .
  9. JA सर्गेण for ०सर्गौ.