षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 6, कुल 226 में से
संदर्भ में पढ़ें६ षड्विंशब्राह्मणम्
तद् व्याचष्टे—
मेधातिथिं ह काण्वायनं मेषो भूत्वा जहार ॥ १५ ॥
काण्वायनं कण्वस्य युवापत्यं मेधातिथिरितिनामानम् ऋषिम् इन्द्रो
मेषो मेषरूपधारी जहार ह स्वर्गं निनाय किल । तथा च बह्वृचा
आमनन्ति—इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिं मेषो भूतोऽभि
यन्नयः। (ऋ. वे. ८. २. ४०) इति । अतो मेधातिथेर्मेषेति इन्द्रः
संबोध्यते ॥ १५ ॥
पुनरपि निगदशेषमुपादत्ते—
वृषणश्वस्य मेन इति ॥ १६ ॥
तद् व्याचष्टे—
वृषणश्वस्य ह मेनस्य मेनका नाम दुहितास । तां
हेन्द्रश्चकमे ॥ १७ ॥
मेनाख्यस्य वृषणश्वस्य वृषणश्व इत्यपरनामधेयस्य राजर्षेः मेनका नाम
काचिद् दुहिता आस बभूव । तां मेनकाम् इन्द्रश्चकमे ह कामितवान् किल ।
अनेन संबन्धेन वृषणश्वस्य मेन इति इन्द्र उपचारेणामन्त्र्यते । तथा च बह्वृचा
आमनन्ति—मेनाभवो वृषणश्वस्य सुक्रतो (ऋ. वे. १. ५१. १३)
इति ॥ १७ ॥
भागान्तरमुपादत्ते—
गौरावस्कन्दिन्निति ॥ १८ ॥
तद् व्याचष्टे—
गौरमृगो ह स्म भूत्वावस्कन्द्यारण्याद्राजानं
पिबति ॥ १९ ॥
2&3. B. काण्वायन for काण्वायनं
5. R. इत्याधावन्तम् for इत्था धीवन्तम्; R. मैधातितं BBh MTIS
मेधा० for मेध्या०; Bh I हि for ०भि.
7. R. संबुध्यते for संबोध्यते.
11. Bh. वृषण्वश्वस्य for वृषणश्वस्य.
13. RSI मेनका० for मेना०; M. om. वृषणश्वस्य ; JA. om. वृषणश्व
इत्यपरनामधेयस्य राजर्षेः.
18. BhRA नमा० M. निगदा० for भागा०