सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 5, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 5

त्रिराह्वानं कर्तव्यमित्यर्थः । हेतुवनिगदोऽयमर्थवादः । तेन ह्यनं क्रियत
इतिवत् । न तु हेतुः । हेतुत्वे हेतुसापेक्षत्वे वा नैरपेक्ष्यलक्षणं प्रामाण्यं न
संभवेदिति ॥ ९ ॥
निगदशेषमुपादायोपादाय व्याचिख्यासया प्रथमं , तावदिन्द्रागच्छेति
पदद्वयं व्याख्यातुमुपादत्ते—
इन्द्रागच्छेति ॥ १० ॥
तद्व्याचष्टे—
यदाहेन्द्रागच्छेत्येतद्द्वा अस्य प्रत्यक्षं नाम तेनैवैनं
तदाह्वयति ॥ ११ ॥
इन्द्रागच्छेति सुब्रह्मण्यो यद्यदाह एतद्वै इदमेव अस्य इन्द्रस्य प्रत्यक्षं
नाम तत् तदा तेनैव एनं प्रकृतत्वाद्नन्वादेशविषये एनादेशः ।
एनमिन्द्रमाह्वयति ॥ ११ ॥
पुनर्निगदशेषं व्याख्यातुमुपादत्ते —
हरिव आगच्छेति ॥ १२ ॥
हे हरिवः । मतुवसो रुः संबुद्धौ छन्दसि (पा. ८. ३. १) इति
नकारस्य रुः । हरिवन्नागच्छेति ॥ १२ ॥
तद् व्याचष्टे--
पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी ताभ्यां हीदं सर्वं हरति ॥ १३ ॥
पूर्वापरपक्षौ शुक्लकृष्णपक्षावेवेन्द्रस्य हरी अश्वौ आदित्यात्मक-
त्वादिन्द्रस्य तयोर्हरित्वप्रतिपादनम् । हि यस्मात् ताभ्यां पूर्वपक्षापरपक्षाभ्याम्
इदं सर्वं जगद्धरति कालात्मकत्वेन नियच्छतीति ॥ १३ ॥
निगदशेषान्तरमुपादत्ते—
मेधातिथेर्मेषेति ॥ १४ ॥

  1. हेतुवान्नि० for हेतुवनि; BRS after अयम adds इति
    K. om. ह्यन्नं...निगद० (L. 4)
  2. R च for वा; Bh M. प्रामाण्येन for प्रामाण्यं न.
  3. R. om. इन्द्रस्य.
  4. M. ०शेषविषये for ०देशविषये
  5. MJA आख्यातुम् for व्याख्यातुम्.
  6. R. रुत्वं for रुः; JA om. इति.
  7. Bh JA हरिताश्वौ for अश्वौ.
  8. RBTIS पूर्वापर० for पूर्वपक्षापर०