षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
DevanagariSanskritpublished226 पृष्ठ
पृष्ठ 4, कुल 226 में से
संदर्भ में पढ़ेंपृष्ठ 4एष वै अयमेव यज्ञस्य संधिः संधाता यत्र यस्मिन् देशे उत्करः
एष वै अयमेव यज्ञस्य संधिः संधाता यत्र यस्मिन् देशे उत्करः
सोममुद्धृत्य कीर्यन्ते पांसवोऽस्मिन्निति उत्करः । वेदेरुत्तरतः पूर्वो
भागः ॥ ६ ॥
अस्तु । प्रकृते किमायातमित्यत आह—
तस्मादुत्करे तिष्ठन्त्सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति ॥ ७ ॥
यस्माद् यज्ञस्य संधिरुत्करः तस्मात् तत्र उत्करे तद्देशे तिष्ठन्
सुब्रह्मण्यो नाम ऋत्विक् सुब्रह्मण्यां, सुब्रह्मणि इन्द्रे साधुरिति सुब्रह्मण्या-
निगदो नियतस्त्रीलिङ्गः, ताम् आह्वयति । तत्पाठेनोद्देश्यां देवताम् इन्द्ररूपाम्
आह्वयतीत्यर्थः ॥ ७ ॥
आह्वानप्रकारं दर्शयति—
सुब्रह्मण्यो३म् सुब्रह्मण्यो३म् सुब्रह्मण्यो३म् इति
स्त्रियमिव त्रिराह ॥ ८ ॥
सुब्रह्मण्योमिति पदं स्त्रियमिवादरपूर्वकं त्रिराह त्रिः पठेत् ॥ ८ ॥
कुत इत्यत्राह—
त्रिषत्या हि देवाः ॥ ९ ॥
हिशब्दो हेतौ । यस्माद् देवाः त्रिषत्याः त्रीणि मनोवाक्कायकर्माणि
सत्यानि अविसंवादीनि येषां देवानां ते त्रिषत्याः । तस्मादतिप्रशस्तत्वात्
- M. उत्करदेशे एति for एषः; BI अर्धमेव K. अधमे[व] for अयमेव;
Bh JA om. उत्करः - RKM'TI सोऽयम् for सोमम्; K. क्रियन्ते for कीर्यन्ते; T. वैदै०
for वेदे०; K ०नूत्तरतः, Bh J ०रुत्तरा, A ०रुत्तरः for ०रुत्तरतः; Bh JA
पूर्वं० for पूर्वो०. - M. ०भङ्गः for ०भागः
- Bh. om. (अ)त.
- R उत्करदेशे for उत्करे तद्देशे; STK उत्करः for उत्करे.
- J om. ०पाठेन.
- K. om. सुब्रह्मण्योम्...त्रिराह.
- JA स्त्रीलिङ्गम् for स्त्रियम्; Bh A ०दान०, J ०ह्वान० for ०दर०.
- K. om. त्रिषत्याः त्रीणि... ०शस्तत्वात्.
17 R. अवितथानि B Bh आपिसं... for अविसंवादीनि; Bh JA
०प्रशस्तं for प्रशस्तत्वात्.