सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 3, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 3

प्रथमोऽध्यायः (१) ३
ततोऽपि किमित्यत्राह —
अथ ह देवा यज्ञेन ब्रह्म पर्यगृह्णत ॥ ३ ॥
अथ ह सुब्रह्मणि देवेभ्यः उत्क्रान्ते सति अनन्तरमेव स्वयमप्युत्क्रमिष्णु
ब्रह्म देवाः वस्वादयः यज्ञेन पर्यगृह्णत परिगृहीतवन्तः ॥ ३ ॥
अत्र किं ब्रह्मशब्देनोच्यते किं च सुब्रह्मशब्देनेति अत्राह — ५
अग्निर्वे ब्रह्मासावादित्यः सुब्रह्म ॥ ४ ॥
अग्निर्वे अग्निरेव ब्रह्मशब्दवाच्यः । मुख्यत्वात् अग्निमुखा वै देवा
इति श्रुतेः । असौ इन्द्रात्मा आदित्यः सुब्रह्म एतद्वाच्यः । तथा च इन्द्रं प्रकृत्य
श्रूयते असावादित्य इति । तथा मन्त्रान्तरमपि — यदद्य कच्च वृत्रहन्नुदगा
अभिसूर्य । सर्वं तदिन्द्र ते वशे ॥ (सा. 126) इति । इन्द्रस्य च सुब्रह्मत्वं १०
सर्वदेवाधिपत्यात् ॥ ४ ॥
ततो देवाः किमकार्षुरित्यत्राह —
तद्देवा यज्ञस्य संधावन्वैच्छन् ॥ ५ ॥
तद् उत्क्रान्तं सुब्रह्म इन्द्रादयो देवा यज्ञस्य संधौ संधातरि वक्ष्यमाणे
उत्करदेशे अन्वैच्छन् अन्वेषणमकार्षुः ॥ ५ ॥ १५
कोऽसौ यज्ञस्य संधिः ? तत्राह —
एष वै यज्ञस्य संधैर्यत्रैष उत्करः ॥ ६ ॥ १७

  1. Bh B om. (अ)त्र
  2. Bh. om. ब्रह्म.
  3. Bh. सुब्रह्मण्यदेवेत्यः for सुब्रह्मणि देवेभ्यः; Bh. adds पुनः after
    सति ; KR ०कमिषु for ०क्रमिष्णु.
  4. R. तत् for अत्र ; Bh JA om. अत्राह.
  5. B. om. अग्निर्वे. Bh. JA om. अग्निरेव.
  6. BR Bh. ०त्मनैक, TAK ०त्मनेक for ०त्मा; BI एव तद्० for
    एतद्; JA add च before एतद्; B. om. तथा च...०वादित्य इति; MT.
    प्रक्रम्य for प्रकृत्य.
  7. JA स्तूयते for श्रूयते ; T ०र्थान्तरम् for मन्त्रान्तरम्.
  8. M. adds श्रुतेः after इति; RK. एव for च.
  9. RI. ०पत्यत्वात् for ०पत्यात्.
  10. Bh MT JA om. इन्द्रादयो०.
  11. I कासौ for कोऽसौ; Bh. अत्र for तत्र.