सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 2, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 2

१ षड्विंशब्राह्मणम्

ततो विश्वरूपगानम् । ततो ब्रह्मकर्तव्यम् । ततो व्याहृतिहोमादिकं नैमित्तिकं
प्रायश्चित्तम् । ततः सौम्यचरुविधिः । ततो बहिष्पवमानधर्माः । ततः किंचित्
प्रकीर्णकम् । ततो होत्राद्युपह्वाः । ततः आर्त्विज्येषु ऋत्विगादिविज्ञेयम् । ततो
नैमित्तिका होमाः । अथ ऋत्विग्वरणप्रशंसा । ततो देवयजने विज्ञेयं कर्म ।
ततोऽवभृथः । ततोऽभिचारादिसंश्रिता विष्टुतयः । ततो द्वादशाहादि-
स्तुतिः । ततः श्येनादिविधिः । ततो वैश्वदेवं सतन्त्रम् । ततोऽग्निहोत्रप्रशंसा ।
तत औदुम्बरीविधिः । ततो यूपविधिः । अथ संध्याविधिः । ततः सोमो-
त्पत्तिः । ततः स्वाहालक्षणम् । ततोऽद्भुतशान्तिः सामान्यविशेषभावेन
द्विविधा । इत्येवं प्रतिपाद्यमानानामर्थानामनुक्रमणिका ॥
तत्र प्रथमं तावदुत्करे तिष्ठन् सुब्रह्मण्यो नाम ऋत्विक् सुब्रह्मण्यामाह्वयतीति
विवक्षया इदमाम्नायते—
ब्रह्म च वा इदमग्रे सुब्रह्म चास्ताम् ॥ १ ॥
अग्रे सर्गादौ । निरुपपदस्याग्रशब्दस्य तदर्थत्वात् । इदं वक्ष्यमाणं ब्रह्म
च सुब्रह्म च एते वै ब्रह्मसुब्रह्मणी द्वे एव आस्ताम् अभूताम् ॥ ॥ १ ॥
ततः किमित्यत आह—
ततः सुब्रह्मोदक्रामत् ॥ २ ॥
ततः अनन्तरं सुब्रह्म देवेभ्यः सकाशात् उदक्रामत् उदगच्छत् ॥ २ ॥


  1. K. ०रूपाख्यगानम् P. रूपागानम .
  2. K. संध्याचर्य० for सौम्यचरु०.
  3. R. वहाः for ह्वाः; JA विधानम् for विज्ञेयम् .
  4. RBMI. नैमित्तिक for नैमित्तिका; JA ततो० for अथ. M.
    विश्वरूपाणां T. विश्वरण० JA अध्वर्यु० for ऋत्विग्वरण०.
  5. K. [त] तो वरूथः for ततोऽवभृथः; JA om. (आ)दि; JA
    ०सुतवि० I ०श्रुतावि०, B ०श्रितवि० for श्रिता वि०; JA. om. (आ)दि.
  6. K. ०विष्ठुतिः for ०स्तुतिः; MTJA अथ for ततः.
  7. MTJA. om. तत औदुम्बरी०...द्विविधा (L. 9)
  8. B. द्विधा for द्विविधा; MKBTI ०पाद्यानाम for पाद्यमानानाम ; T
    ०क्रमणी for ०क्रमंणिका.
  9. Bh. from तत्र प्रथमं upto ०शब्दस्य is missing (L. 13) ; R.
    सुब्रह्मण्यो BMT सुब्रह्मण्य for सुब्रह्मण्यो०; JA. om. नाम ऋत्विक् .
  10. BMTK सर्वा दौ, JA सृष्ट्यादौ for सर्गादौ.
  11. Bh. JA. द्वे for वै; JA add द्वे before द्वे; T च for एव.