षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 1, कुल 226 में से
संदर्भ में पढ़ेंॐ
षड्विंशब्राह्मणम्
श्रीसायणाचार्यविरचितेन
वेदार्थप्रकाशेन समन्वितम्
प्रथमोऽध्यायः
प्रथमः खण्डः
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थं महेश्वरम् ॥ २ ॥
तत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः ।
आदिशत् सायणाचार्यं वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता ।
व्याख्याता ब्राह्मणं चायं प्रौढं व्याख्यातमादरात् ॥ ५ ॥
अथ द्वितीयं षड्विंशब्राह्मणं व्याचिकीर्षति ॥
अस्मिन् ताण्डकशेषे ब्राह्मणे पूर्वत्रानुक्तानि कर्माणि, उक्तानामपि ये
भेदास्ते च वर्ण्यन्ते । तत्र प्रथमं सुब्रह्मण्योच्यते । ततः सवनत्रये विज्ञेयम् ।
8. MKR निश्वसितं for निःश्वसितं; I. देवेभ्यो for वेदेभ्यो.
15. BMTJ. ब्राह्मणस्य for ब्राह्मणं च.
16. A षड्विंशं for षड्विंश.
17. R. तण्डयक०, A. तण्ड्य, MJ ताण्ड for ताण्डक; JA.
०शेष० for शेषे; A. पूर्वोण्यनु, J. पूर्वानु for पूर्वत्रानु.
18. M. वेदा for भेदा; RdTIK om. च; JA पठ्यन्ते for वर्ण्यन्ते;
M. om. ते च वर्ण्यन्ते । तत्र; K. विज्ञेयः, M. विज्ञेयाः for विज्ञेयम्;
AJ, ०त्रयेऽपि शेयम् for ०त्रये विज्ञेयम् .