षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 106, कुल 226 में से
संदर्भ में पढ़ेंपर्जन्यो म उद्गाता । स मे देवयजनं ददातु । उद्गात-
र्देवयजनं मे देहीत्युच्चैः । आकाशो मे सदस्यः । स मे
देवयजनं ददातु । सदस्य देवयजनं मे देहीत्युच्चैः । आपो
मे होत्राशंसिनः । ते मे देवयजनं ददतु । होत्राशंसिनो
देवयजनं मे दत्तेत्युच्चैः । रश्मयो मे चमसाध्वर्यवः । ते मे
देवयजनं ददतु । चमसाध्वर्यवो देवयजनं मे दत्तेत्युच्चैः ॥ ९ ॥
मे मम अग्निरेव होता । सोऽग्निरूपो होता मे मह्यं देवयजनं
ददातु इत्युपांशूचार्य होतर्मे देवयजनं देहीत्युच्चैर्मन्त्रयेत् । अन्यदप्येवं
व्याख्येयम् ॥ ९ ॥
यथोक्तप्रकारं प्रशंसति—
ता वा एता देवता ऋत्विजामेव वाग्भिर्देवयजनं
ददति । स दत्ते यजते ॥ १० ॥
ता एता अग्न्यादय एव देवता ऋत्विजां संबन्धिनीभिः प्रार्थना-
रूपाभिः वाग्भिः प्रार्थिताः सत्यो देवयजनं ददति । यजमानाय प्रयच्छन्ति ।
स च यजमानोऽग्न्यादिभिरेव दत्ते देवयजने यजते । न तु मानुषैर्दत्त
इत्यर्थः ॥ १० ॥
कीदृशं देवयजनमित्याशङ्क्य तल्लक्षणं दर्शयितुमुपक्रमते—
यदुन्नतं भूम्या अनूषरं यत्र बहुला ओषधयश्चा-
त्वालसारिण्यो यत्रापः स्युस्तस्य नु पुरः ॥ ११ ॥
यत् भूतलं भूम्याः स्वसमीपस्थाया भूमेरुन्नतं स्वयमेव । न तु
समीपस्थं प्रदेशान्तरम् । उन्नतं तदेव देवयजनत्वेन ग्राह्यम् । तथा च
द्राह्मायणः—न चास्य स्थलतरमदूरे स्यात् (१.१ १८) इति ।
अस्यार्थः । अस्य देवयजनस्यादूरे समीपे स्थलतरम् अत्युन्नतं देशान्तरं न