सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 103, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 103

तृतीयः खण्डः
अथ ऋत्विग्वरणं विधातुं स्तौति—
ते वा ऋत्विजः स यजमानः दैवा वा अन्य ऋत्विजो
मानुषा अन्ये । यं दैवा याजयन्ति देवलोकमेव स तैरवरुन्धे ।
न मनुष्यलोकम् । अथ यं मानुषा याजयन्ति मनुष्यलोकमेव 5
स तैरवरुन्धे । न देवलोकम् । अथ यमुभये याजयन्ति
देवलोकं चैव स तैरवरुन्धे । मनुष्यलोकं च ॥ १ ॥
ते वै प्रसिद्धा एव ऋत्विजः स विख्यात एव यजमानः । तत्र दैवाः
देवरूपा ऋत्विजः अन्ये तथा मानुषाः मनुष्यसंबन्धिनोऽप्यन्ये तत्र यं
यजमानं दैवा ऋत्विजो याजयन्ति स यजमानः देवलोकमेव तैः ऋत्विग्भिः 10
अवरुन्धे व्याप्नोति । न मनुष्यलोकम् । अथ पुनर्यं मानुषा ऋत्विजो
याजयन्ति स यजमानो मनुष्यलोकमेव तैरवरुन्धे न देवलोकम् । अथ
पुनः यं यजमानम् उभये दैवा मानुषाश्च ऋत्विजो याजयन्ति स देवलोकं
च मनुष्यलोकं च तैः उभयैः ऋत्विग्भिः अवरुन्धे ॥ १ ॥
एवम् उभयविधान् ऋत्विजः प्रशस्य तत्र दैवत्विग्वरणं विधत्ते— 15
स एतान् दैव.नृत्विजो वृणीत अग्निर्मे होतादित्यो
मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्जन्यो म उद्गाताकाशो मे सदस्य 17


पादटिप्पण्यः (Footnotes):

  1. Sh. देवता, M ते एते for ते वा ; M. देवा० for दैवा०.
  2. M मानुष्या० for मानुषा० ; MTS. देवा for दैवा.
  3. M मानुष्या० for मानुषा०.
  4. RSI वाख्यातः, K व्याख्यातः for विख्यातः.
  5. J adds तैर्देवैर्हेतुभिः before देवलोकं ; MT हेतुभि. for ऋत्विग्भिः J. om. एव तैः ऋत्विग्भिः.
  6. TIS मानुष्या for मानुषाः.
  7. RKTM देवा for दैवा ; T. प्रख्यातः for विख्यातः.