षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 104, कुल 226 में से
संदर्भ में पढ़ें१८४ षड्विंशब्राह्मणम्
आपो मे होत्राशंसिनो रश्मयो मे चमसाध्वर्यवः ॥ २ ॥
स यजमानोऽग्निर्मे होतेत्यादिभिः सप्तभिः मन्त्रैः एतान् दैवानृत्विजो
वृणीतेति ॥ २ ॥
अथानन्तरं मानुषर्त्विग्वरणं विधत्ते—
स एतान् दैवानृत्विजो वृत्वाथैतान् मानुषान् वृणीत ।
य एनमभिराधयेयुः ॥ ३ ॥
स यजमानः एतानुक्तान् दैवान् ऋत्विजो यथोक्तप्रकारेण वृत्वा अथ
पश्चाद् एतान् मानुषान् ऋत्विजो वृणीत । ये ऋत्विजः एनमभिराधयेयुः
सम्यक् स्वस्वकर्मानुष्ठानेन फलप्राप्तिसमर्थं कुर्युः । तत्रायमृत्विग्वरणप्रकारः ।
एतन्नामकेनैतःसंस्थेनैतत्पृष्ठेनैतावद्दक्षिणेन यज्ञेनाहं यक्ष्ये । तत्र मे त्वं
होताध्वर्युरित्यादि ॥ ३ ॥
अथ देवयजनेषु विज्ञेयमुच्यते । तत्र प्रथमं क्षत्रियं प्रति देवयजन-
प्रार्थनां दर्शयति—
अथ क्षत्रियं देवयजनं याचेत् ॥ ४ ॥
अथशब्दो वाक्योपक्रमे । क्षत्रियं राजानं । देवयजनम्, देवा
इज्यन्तेऽस्मिन् देश इति देवयजनं यागदेशस्तं याचेत् यजमानः प्रार्थयेत् ॥ ४ ॥
राज्ञा देवयजने दत्ते यजमानस्तु किं ब्रूयादित्यत्राह—
स चेत्तस्मै दद्याद्देवयजनवान् भूया इत्येनं ब्रूयात् ॥ ५ ॥
स राजा यद्यस्मै देवयजनं दद्यात् तर्हि तं राजानं त्वं देवयजनवान्
भूया इत्याशीर्वचनं ब्रूयात् ॥ ५ ॥
विपर्यये वचनप्रकारं दर्शयति—
न चेत्तस्मै दद्याद्यदहं देवयजनं वेद तस्मिंस्त्वोत्
वृश्चानीत्येनं ब्रूयात् ॥ ६ ॥
2. J. ०दिना प्रतिमन्त्रं for ०दिभिः सप्तभिः मन्त्रैः; R adds
देवास्तान्, TK देवान् तान् after मन्त्रैः; MTSK देवान् for दैवान्.
9. J फलाप्तेः for फलप्राप्ति०.
10. M. भवता हौत्रमाध्वर्यवमौद्गात्रं ब्रह्मत्वम for मे त्वं होताध्वर्युः.
16. K. इष्यन्ते for इज्यन्ते; J om. प्रार्थयेत्.
18. M चैत्तदस्मै for चेत्तस्मै; KTIS. अस्मै for तस्मै.