षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 102, कुल 226 में से
संदर्भ में पढ़ें१०२ षड्विंशब्राह्मणम्
सर्वेष्वेव गार्हपत्यादिष्वग्निषु अनुपर्यायं क्रमेण नमः प्राणाय वाचस्पतये
स्वाहा नमो वाचे प्राणपत्न्यै स्वाहेत्येताभ्यां मन्त्राभ्यां पूर्ववच्चतुर्गृहीतमाज्यं
जुहुयात् ॥ २ ॥
स्रुचि निहितस्य तस्य हिरण्यस्य प्रतिपत्तिं दर्शयति—
अथ तद्धिरण्यं ब्रह्मणे दद्यात् ॥ ३ ॥
प्रायश्चित्तहोमं पुनर्यज्ञत्वेन स्तौति—
अथ यदाह यज्ञो वाव यज्ञस्य प्रायश्चित्तिरिति
पुनर्यज्ञ एव स एते उ ह त्वेवाहुती यज्ञविभ्रष्टस्य प्राय-
श्चित्तिरिति ॥ ४ ॥
अथशब्दो वाक्योपक्रमे । यज्ञो वाव पुनर्यज्ञ एव यज्ञस्य प्राय-
श्चित्तिरिति यदाह वेदः स एव पुनः यज्ञ एते उ ह यथोक्ते उभे त्वेवाहुती
यज्ञविभ्रष्टस्य यज्ञन्यूनत्वस्य प्रायश्चित्तिरिति ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥
2. RSI. om. मन्त्राभ्यां; J adds गृहीत्वा after आज्यं.
4. MRSIK. om. स्रुचि निहितस्य; T. om. स्रुचि; T आहितस्य
for निहितस्य; JT om. तस्य.
5. J. after दद्यात् adds: अथैवं हुत्वा पश्चात् तद्धिरण्यं ब्रह्मणे दद्यात्.
6. R. ०श्चित्तं for ०श्चित्तहोमं.
11. J यज्ञो वाव यज्ञस्य प्रायश्चित्तिरिति for वेदः स एव; RTSK. om.
यथोक्ते उभे.
यज्ञविभ्रष्टस्य for यज्ञन्यूनत्वस्य.