सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 101, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 101

तृतीयोऽध्यायः (२) १०१
अथ नैमित्तिकान् होमान् दर्शयति—
प्राणदैवत्यो वै ब्रह्मा । वाग्देवत्या इतर ऋत्विजः ।
स यदि मन्येत ब्रह्मा म इदमकरिति हरितं हिरण्यं
दर्भनाड्या प्रबध्य स्रुच्यवधाय चतुर्गृहीतमाज्यं गृहीत्वा
जुहुयान्नमः प्राणाय वाचस्पतये स्वाहेति । यद्यु वा इतरे
नमो वाचे प्राणपत्न्यै स्वाहेति । यदीतरो यदि वेतरे सर्वे-
ष्वेवानुपर्यायं जुहुयान्नमः प्राणाय वाचस्पतये स्वाहा नमो
वाचे प्राणपत्न्यै स्वाहेति ॥ २ ॥
ब्रह्मा प्राणदैवत्यो वै प्राणदैवत्यः खलु । व्यानो मे ब्रह्मेति
व्यानाख्यप्राणात्मकत्वेनोक्तत्वात् । ब्रह्मणः इतरे होत्रादयः ऋत्विजो वाग्दे-
वत्याः । वाङ्मे होतेत्यादिश्रुतेः । तत्र यदि स यजमानो ब्रह्मा मे मम यज्ञे
इदम् अहितम् अकः अकार्षीद् इति मन्येत निश्चिनुयात् तर्हि हरितं
पार्थिवावयवोपष्टम्भाद्धरितवर्णं हिरण्यं दर्भनाड्या प्रबध्य प्रग्रथ्य स्रुच्यवधाय
निधाय आज्यं चतुर्गृहीतं गृहीत्वा नमः प्राणाय वाचस्पतये स्वाहेत्यनेन
मन्त्रेण चोदिताग्नौ जुहुयात् । अथ पुनर्यदि वै यद्येव इतरे होत्रादयो
ऋत्विजो मम यज्ञे हीनमकार्षुरिति यजमानो मन्येत तर्हि नमो वाचे प्राण-
पत्न्यै स्वाहेत्यनेन मन्त्रेण पूर्ववच्चतुर्गृहीतमाज्यं जुहुयात् । यदि वा इतरो
ब्रह्मा, यदि वा इतरे होत्रादयः सर्वेऽपि न्यूनमकार्षुरिति यजमानो मन्येत तर्हि
4. Bh. Concludes with प्रबध्य.
6. TS चेतरे for वेतरे.
10. J ०त्मकत्वात् for ०त्मकत्वेनोक्तत्वात् .
11. KT अत्र, M कुत्र for तत्र.
12. T हीनम् M मम for अहितम्; RSI om. अकः.
13. J. om. हिरण्यं.
15. RSI. चोदितं होमं, J चोदितेन, T चोदितोऽसौ, K. चोदितः सन्
for चोदिताग्नौ.
17. J adds गृहीत्वा after आज्यं.
18. J. adds यदि before यजमानो.