सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 74, कुल 496 में से
संदर्भ में पढ़ें२० सौन्दरनन्दं महाकाव्यम्
हिन्दी—उपवनों और मार्गों में चारो ओर उन्होंने कूपयुक्त मनोरम एवं आकर्षक
धर्मशालाओं का निर्माण करवाया ॥ ५१ ॥
हस्त्यश्वरथसङ्कीर्णमसङ्कीर्णमनाकुलम् ।
अनिगूढार्थिविभवं निगूढज्ञानपौरुषम् ॥ ५२ ॥
अन्वयः—हस्त्यश्वरथसङ्कीर्णम् असङ्कीर्णम् अनाकुलम् अनिगूढार्थिविभवम्
निगूढज्ञानपौरुषम् ॥ ५२ ॥
व्याख्या—हस्त्यश्वरथसङ्कीर्णम्—हस्तिनः=गजाः, अश्वाः=घोटकाः, रथाश्च=
स्यन्दनाश्च, तैः सङ्कीर्णम्, असङ्कीर्णम्=पवित्रम्, अनाकुलम्=अविक्षुब्धम्, अनिगूढा-
र्थिविभवम्—न=नहि, निगूढाः=गोपनीयाः, अर्थिभ्यः=याचकेभ्यः, विभवाः=
धनानि, यस्य तत्, निगूढज्ञानपौरुषम्—निगूढः=गुप्तः, ज्ञान-पौरुषो=ज्ञानबले, यस्य
तदिति ॥ ५२ ॥
हिन्दी—हाथी, घोड़े और रथों से भरे रहने के बावजूद भी यह नगर न तो गन्दा
हुआ और न अस्त-व्यस्त ही। वहाँ याचकों के सामने किसी ने अपने धन को कभी
नहीं छिपाया, परन्तु अपने ज्ञान और पौरुष का कहीं अनावश्यक प्रदर्शन नहीं
किया ॥ ५२ ॥
सन्निधानमिवार्थानामाधानमिव तेजसाम् ।
निकेतमिव विद्यानां सङ्केतमिव सम्पदाम् ॥ ५३ ॥
अन्वयः-अर्थानां सन्निधानमिव तेजसाम् आधानम् इव विद्यानां निकेतम् इव
सम्पदां सङ्केतम् इव ॥ ५३ ॥
व्याख्या—अर्थानाम्=सम्पदाम्, सन्निधानम्=आश्रयस्थानम्, इव=यथा, तेज-
साम्=प्रतापानाम्, आधानम्=न्यसनम्, इव=यथा, विद्यानाम्=चतुर्दशाख्यविद्यानाम्,
निकेतम्=मन्दिरम्, इव=यथा, सम्पदाम्=सम्पत्तीनाम्, सङ्केतम्=संज्ञानम्,
इव=यथा ॥ ५३ ॥
हिन्दी—वह नगर धन की धरोहर, तेज का खजाना, विद्या का मन्दिर और
सम्पत्ति के गुप्त खजाने की तरह था ॥ ५३ ॥
वासवृक्षं गुणवतामाश्रयं शरणैषिणाम् ।
आनर्तं कृतशास्त्राणामालानं बाहुशालिनाम् ॥ ५४ ॥
अन्वयः—गुणवतां वासवृक्षं शरणैषिणाम् आश्रयं कृतशास्त्राणाम् आनतं बाहु-
शालिनाम् आलानम् ( आसीत् ) ॥ ५४ ॥
व्याख्या—गुणवताम्=गुणज्ञानाम्, वासवृक्षम्=निवासतरुः, शरणैषिणाम्=
शरणेच्छुकानाम्, आश्रयम्=निवासस्थानम्, कृतशास्त्राणाम्=शास्त्रज्ञानाम्, आनर्तम्
=सदनम्, बाहुशालिनाम्=भुजशालिनाम्, आलानम्=स्तम्भम्, आसीत् ॥ ५४ ॥
हिन्दी—वह नगर गुणियों का वासवृक्ष, शरणार्थियों का आश्रम, शास्त्रवेत्ताओं
का घर तथा बाहुशालियों का मानो स्तम्भ था ॥ ५४ ॥