सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 73, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 73

कपिलवस्तुवर्णनम् ] प्रथमः सर्गः १९
व्यासम्, यत् = पुरम्, किन्नरैः = किम्पुरुषैः, मन्दरः = मन्दराचलः, इव = यथा, बभासे =
शुशुभे ॥ ४८ ॥
हिन्दी—धनवान्, विद्वान्, शान्त एवं अनुद्धत लोगों से वह नगर वैसे ही सुशोभित
हुआ जैसे किन्नरों से भरा हुआ मन्दराचल ॥ ४८ ॥
यत्र ते हृष्टमनसः पौरप्रीतिचिकीर्षया ।
श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचीकरन् ॥ ४९ ॥
अन्वयः—यत्र पौरप्रीतिचिकीर्षया हृष्टमनसः ते श्रीमन्त्युद्यानसंज्ञानि यशो-
धामानि अचीकरन् ॥ ४९ ॥
व्याख्या—यत्र = यस्मिन् नगरे, पौरप्रीतिचिकीर्षया—पुरे = नगरे, वास एषामिति
पौराः = नगरवासिनः, पौराणाम् = नगरवासिनाम्, प्रीतिः = प्रसन्नता, पौरप्रीतिस्तस्या
चिकीर्षा, तया = पुरजनप्रसन्नकरणेच्छया, हृष्टमनसः = प्रहृष्टमनाः, ते = राजकुमाराः,
श्रीमन्ति = कान्तिसंवलितानि, उद्यानसंज्ञानि = 'उद्यान' इत्याख्याकानि, यशोधामानि =
कीर्तिस्थानानि, अचीकरन् = अकारयन् ॥ ४९ ॥
हिन्दी—पुरवासियों को वहाँ प्रसन्न रखने की इच्छा से उन्होंने उस नगर में
कीर्तिवर्द्धक एक सुन्दर उद्यान का निर्माण करवाया ॥ ४९ ॥
शिवाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः ।
नाज्ञया चेतनोत्कर्षाद्दिक्षु सर्वास्वचीखनन् ॥ ५० ॥
अन्वयः—आज्ञया न अपितु चेतनोत्कर्षात् सर्वासु दिक्षु परमाग्र्यगुणाम्भसः शिवाः
पुष्करिणीः चैव अचीखनन् ॥ ५० ॥
व्याख्या—आज्ञया = आदेशेन, न = नहि, अपितु = प्रत्युत, चेतनोत्कर्षात् —
चेतनायाः = विवेकस्य, उत्कर्षः = समुदयः, तस्मात् = विवेकोदयात्, सर्वासु = सकलासु,
दिक्षु = आशासु, परमाग्र्यगुणाम्भसः — परमश्चासौ अग्र्यगुणास्तेन सहितानि अम्भांसि
यासु ताः = उत्तमगुणसलिलान्विताः, शिवाः = कल्याणप्रदाः, पुष्करिणीः = जलाशयान्,
चैव, अचीखनन् = खनितवन्तः ( √खन् + णिच् + लङ् + झि ) ॥ ५० ॥
हिन्दी—किसी की आज्ञा से नहीं, अपितु स्व-विवेक से सभी दिशाओं में उन्होंने
कल्याणकारी उत्तमगुणयुक्त जलाशय खुदवाये ॥ ५० ॥
मनोज्ञाः श्रीमतीः प्रष्ठीः पथिषूपवनेषु च ।
सभाः कूपवतीश्चैव समन्तात प्रत्यतिष्ठिपन् ॥ ५१ ॥
अन्वयः—उपवनेषु पथिषु च समन्तात् मनोज्ञाः श्रीमतीः प्रष्ठीः कूपवतीः सभाः
चैव प्रत्यतिष्ठिपन् ॥ ५१ ॥
व्याख्या—उपवनेषु = आरामेषु, पथिषु = मार्गेषु, च = पुनः, समन्तात् = सर्वतः,
मनोज्ञाः = मनोहराः, श्रीमतीः = दिव्यप्रभावयुक्ताः, प्रष्ठीः = उत्कृष्टाः, कूपवतीः — कूपाः
सन्ति यासु ताः कूपवतीः = कूपयुक्ताः, सभाः = समाजाः, प्रत्यतिष्ठिपन् = निर्माण-
मकारयन् ॥ ५१ ॥