सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 72, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 72

१८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—यत्र = यस्मिन् नगरे, तत् = नगरस्य, भूमेः = धरित्र्याः, अभियोक्तॄणाम्
= आक्रमणकारिणाम्, विनिवृत्तये = निवारणाय, प्रयुक्तान् = नियोजितान्, भृत्यदण्डान्
= सैनिकान्, स्वेन = स्वकीयेन, प्रभावेण = प्रतापेन, अजीजपन् = विजयमकारयन् ॥ ४५ ॥
हिन्दी—उस धरती पर आक्रमण करने वालों को हटाने के लिए, वहाँ जो सैनिक
नियुक्त थे उनके द्वारा उन्होंने अपने पराक्रम से उन्हें पराजित किया ॥ ४५ ॥
चारित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः ।
अर्हतोऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः ॥ ४६ ॥
अन्वयः—यत्र चारित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः अर्हतः शूरान् दक्षान्
कुटुम्बिनः च अतिष्ठिपन् ॥ ४६ ॥
व्याख्या—यत्र = नगरे, चारित्रधनसम्पन्नान्—चारित्रम् = सदाचारम्, तदेव
धनम् = द्रव्यम्, तेन सम्पन्नान् = युक्तान् । सलज्जाम् = लज्जाशीलान्, दीर्घदर्शिनः—
दीर्घम् = दूरम्, द्रष्टुम् = अवलोकयितुम्, शीलम्=स्वभावमस्येति दीर्घदर्शी, तान्=सूक्ष्मा-
वलोकिनः, अर्हतः = योग्यान्, शूरान् = वीरान्, दक्षान् = कुशलान्, कुटुम्बिनः = सम्ब-
न्धिनः, च = पुनः, अतिष्ठिपन् ( √स्था+णिच्+लङ्+झि ) ॥ ४६ ॥
हिन्दी—चरित्र में टकसाल, लज्जावान्, दूरदर्शी, सुयोग्य, वीर एवं कुशल
कुटुम्बियों को उन्होंने उस नगर में बसाया ॥ ४६ ॥
व्यस्तैस्तैस्तैर्गुणैर्युक्तान् मतिवाग्विक्रमादिभिः ।
कर्मसु प्रतिरूपेषु सचिवांस्तान् न्ययूयुजन् ॥ ४७ ॥
अन्वयः—मतिवाग्विक्रमादिभिः तैः तैः व्यस्तैः गुणैः युक्तान् तान् सचिवान्
प्रतिरूपेषु कर्मसु न्ययूयुजन् ॥ ४७ ॥
व्याख्या—मतिः = बुद्धिः, वाक् = वाणी, विक्रमश्च = पराक्रमश्च, .ते आदौ एषां
तैः, तैस्तैः = पूर्वोक्तैः, व्यस्तैः = पृथग्भूतैः, गुणैः = मत्यादिगुणैः, युक्तान् = समन्वि-
तान्, तान् = पूर्वकथितान्, सचिवान् = मन्त्रिणः, प्रतिरूपेषु = अनुरूपेषु, कर्मसु =
कृत्येषु, न्ययूयुजन् = नियोजितवन्तः ॥ ४७ ॥
हिन्दी—बुद्धि, वाणी और पराक्रम प्रभृति विभिन्न गुणों से सम्पन्न सचिवों को
उनके अनुरूप कार्यों में उन्होंने नियुक्त किया ॥ ४७ ॥
वसुमद्भिरविभ्रान्तैरलंविद्यैरविस्मितैः ।
यद् बभासे नरैः कीर्णं मन्दरः किन्नरैरिव ॥ ४८ ॥
अन्वयः—वसुमद्भिः अविभ्रान्तैः अलंविद्यैः अविस्मितैः नरैः कीर्णं यत् किन्नरैः
मन्दर इव बभासे ॥ ४८ ॥
व्याख्या—वसुमद्भिः—वसु अस्ति अस्येति वसुमान्, तैः = धनीवर्गैः, अविभ्रान्तैः—
न विभ्रान्ताः, तैः अविभ्रान्तैः = निर्भ्रान्तैः, अलंविद्यैः—अलम् = पर्याप्तम्, विद्या = ज्ञानम्,
येषां ते तैः अलंविद्यैः = विद्वद्भिः, अविस्मितैः = अनुद्धतैः, नरैः = जनैः, कीर्णम् =