सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 71, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 71

कपिलवस्तुवर्णनम् ] प्रथमः सर्गः १७
गिरिव्रजम्—गिरीणाम् = भूधराणाम्, व्रजम् = सङ्ग्रहम्, गिरिव्रजम् = राजभवनम्,
इव = यथा, आसीदिति भावः ॥ ४२ ॥
हिन्दी—नगर को दुर्गम बनाने के लिए उसके चारों ओर खोदी गई खाई नदी
की तरह आयत थी; राजपथ भव्य और धनुषाकार था, किले पहाड़ के सदृश थे।
वह नगर दूसरे राजगृह की तरह था ॥ ४२ ॥
पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् ।
हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेरिव ॥ ४३ ॥
अन्वयः—पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणं हर्म्यमालापरिक्षिप्तं हिमगिरेः
कुक्षिमिव आसीत् ॥ ४३ ॥
व्याख्या—पाण्डुराः = सितपीतवर्णाः, अट्टालाः = वसत्तयः, तैः शोभनं मुखं
यस्य तत् = श्वेतप्रासादशोभनाग्रम्, सुविभक्तान्तरापणम्—सुष्ठु विभक्तानि = पृथक्-
कृतानि, अन्तरा = अन्तरालम्, आपणानि = हट्टानि, यस्य तत्, हर्म्यमालापरिक्षिप्तम्—
हर्म्याणाम् = प्रासादानाम्, माला = पङ्क्तिः, तया परिक्षिप्तम् = आवृत्तम्, राजभवन-
पङ्क्तिपरिव्याप्तम्, हिमगिरेः=नगाधिराजस्य, कुक्षिम् = गर्भगृहम्, इव=यथा, आसीत्=
बभूवेति । अत्र नगरं हिमालयकुक्षिसदृशैरित्युपमेति ॥ ४३ ॥
हिन्दी—सफेद अट्टालिकाओं से उस नगर के सामने का हिस्सा सुन्दर लगता
था, उसके भीतरी बाजार भी अच्छी तरह विभाजित थे। महलों की श्रृंखला से
घिरा वह नगर हिमालय के गर्भगृह की तरह सुशोभित था ॥ ४३ ॥
वेदवेदाङ्गविदुषस्तस्थुषः षट्सु कर्मसु ।
शान्तये वृद्धये चैव यत्र विप्रानजीजपन् ॥ ४४ ॥
अन्वयः—यत्र वेदवेदाङ्गविदुषः षट्सु कर्मसु तस्थुषः विप्रान् शान्तये वृद्धये चैव
अजीजपन् ॥ ४४ ॥
व्याख्या—यत्र = यस्मिन् नगरे, वेदवेदाङ्गविदुषः—वेदानाम् = श्रुतीनाम्, वेदा-
ङ्गानाम् = श्रुत्यवयवषट्प्रकारकशस्त्राणाम्, च विद्वांसः = पण्डिताः, तान्, षट्सु =
षट्सङ्ख्यकेषु, कर्मसु = कर्त्तव्येषु, तस्थुषः = रतान्, विप्रान् = द्विजान्, शान्तये=तृष्णा-
क्षयहेतवे, वृद्धये = वृद्धयर्थम्, चैव, अजीजपन् = जपमकारयन् ॥ ४४ ॥
हिन्दी—वेदवेदाङ्गों में पारङ्गत षट्कर्मी ब्राह्मणों से उन्होंने अपनी शान्ति और
अभिवृद्धि के लिए जप करवाया ॥ ४४ ॥
तद्भूमेरभियोक्तॄणां प्रयुक्तान् विनिवृत्तये ।
यत्र स्वेन प्रभावेन भृत्यदण्डानजीजपन् ॥ ४५ ॥
अन्वयः—यत्र तद्भूमेः अभियोक्तॄणाम् विनिवृत्तये प्रयुक्तान् भृत्यदण्डान् स्वेन
प्रभावेन अजीजपन् ॥ ४५ ॥