सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 70, कुल 496 में से
संदर्भ में पढ़ें१६ सौन्दरनन्दं महाकाव्यम्
तीति तज्ज्ञस्तैः = तद्विद्यावेत्तृभिः, उपाख्यातान् = ज्ञापितान्, महतः = अत्यधिकान्, बहु-
लान् वेति, निधीन् = सम्पत्तीः, अवापुः = प्राप्तवन्तः ॥ ३९ ॥
हिन्दी—तब उनके पुण्यकर्मों के प्रभाव से उनकी समृद्धि उनके सामने प्रकट हुई
और उस विद्या के जानकारों द्वारा बतलाये जाने पर, उन्होंने बड़ी-बड़ी निधियाँ
पायीं ॥ ३९ ॥
अलं धर्मार्थकामानां निखिलानामवाप्तये ।
निधयो नैकविधयो भूरयस्ते गतारयः ॥ ४० ॥
अन्वयः—नैकविधयः गतारयः भूरयः ते निधयः निखिलानां धर्मार्थकामानाम्
अवाप्तये अलम् ॥ ४० ॥
व्याख्या—नैकविधयः = बहुप्रकारकाः, गतारयः = शत्रुरहिताः, भूरयः = बहुशः,
ते = पूर्वोक्ताः, निधयः = सम्पत्तयः, निखिलानाम् = अखिलानाम्, धर्मार्थकामानाम् =
धर्मादित्रिवर्गाणाम्, अवाप्तये = प्राप्तये, अलम् = पर्याप्तम् ॥ ४० ॥
हिन्दी—वे निधियाँ अनेक गुणसम्पन्न थीं, शत्रुओं के भय से मुक्त थीं तथा धर्म,
अर्थ और काम साधन के लिए पर्याप्त थीं ॥ ४० ॥
ततस्तत्प्रतिलम्भाच्च परिणामाच्च कर्मणः ।
तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन्न्यवेशयन् ॥ ४१ ॥
अन्वयः—ततः तत्प्रतिलम्भात् कर्मणः परिणामाच्च वास्तुज्ञाः तस्मिन् वस्तुनि
श्रीमत् पुरं न्यवेशयन् ॥ ४१ ॥
व्याख्या—ततः = निधि-प्राप्त्यनन्तरम्, तत्प्रतिलम्भात् = कोषप्रापणात्, कर्मणः =
शुभकृत्यस्य, परिणामात् = परिपाकात्, च = पुनः, वास्तुज्ञाः = भवननिर्माणकला-
विशेषज्ञः, तस्मिन् = वने, वास्तुनि = वास्तुस्थाने, श्रीमत् = छविमत्, पुरम् = नगरम्,
न्यवेशयन् = निर्मायितवन्तः ॥ ४१ ॥
हिन्दी—अपने पुण्यकर्मों के प्रभाव से तथा उन निधियों की प्राप्तियों से उन्होंने
भवननिर्माण-कलाविदों से एक सुन्दर नगर निर्माण करवाया ॥ ४१ ॥
सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् ।
शैलकल्पमहावप्रं गिरिव्रजमिवापरम् ॥ ४२ ॥
अन्वयः—सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथं शैलकल्पमहावप्रम् अपरं
गिरिव्रजम् इव ॥ ४२ ॥
व्याख्या—सरित् इव = नदीव, विस्तीर्णा = आयता, परिखा = खातं यस्य तत्,
स्पष्टाञ्चितमहापथम्—स्पष्टम् = परिस्फुटम्, यथा स्यात् तथा अञ्चितः = धनुषाकारेण
सुशोभितः, महापथः = विस्तृतमार्गम्, यस्मिन् तत्, शैलकल्पमहावप्रम्—शैलानि =
गिरयः, कल्पः = सदृशः, महावप्राणि = प्राचीराणि, यस्य तत्, अपरम् = अन्यम्,