सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 69, कुल 496 में से
संदर्भ में पढ़ेंकपिलवस्तुवर्णनम् ], प्रथमः सर्गः १५
तायाः, कर्म = कृत्यम्, यस्य सः, तस्य = दिव्यकर्मणः, दौष्यन्तेः = दुष्यन्ततनयभरतस्य,
अनुचक्रुः = अनुकरणं कृतवन्तः ॥ ३६ ॥
हिन्दी—वनैले हाथियों को खोजते हुए, वन्य पशुओं पर अपनी अस्त्रकला का
परीक्षण करते हुए, उन्होंने देवकर्मा दुष्यन्त-पुत्र भरत का अनुकरण किया ॥ ३६ ॥
तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान् व्याघ्रशिशूनिव ।
तापसास्तद्वनं हित्वा हिमवन्तं सिषेविरे ॥ ३७ ॥
अन्वयः—वृद्धान् व्याघ्रशिशून् इव तान् प्रकृतिं यातान् दृष्ट्वा तापसाः तद्वनं
हित्वा हिमवन्तं सिषेविरे ॥ ३७ ॥
व्याख्या—वृद्धान् = वृद्धिङ्गतान्, व्याघ्रस्य = मृगान्तकस्य, शिशून् = शावकान्,
इव = यथा, तान् = कुमारान्, प्रकृतिम् = स्वाभाविकस्थितिम्, यातान् = गतान्,
दृष्ट्वा = अवलोक्य, तापसाः = मुनयः, तत् = पूर्वोक्तम्, वनम् = अरण्यम्, हित्वा =
परित्यज्य, हिमवन्तम् = नगाधिराजम्, सिषेविरे = सेवितवन्तः ॥ ३७ ॥
हिन्दी—जवान होकर वे राजकुमार बाघ के बच्चों की तरह अपनी स्वाभाविक
स्थिति में पहुँच गये । यह देखकर उस वन के मुनि अपने आश्रम को छोड़कर हिमा-
लय पर चले गये ॥ ३७ ॥
ततस्तदाश्रमस्थानं शून्यं तैः शून्यचेतसः ।
पश्यन्तो मन्युना तप्ता व्याला इव निशश्वसुः ॥ ३८ ॥
अन्वयः—ततः तदाश्रमस्थानं तैः शून्यं पश्यन्तः शून्यचेतसः मन्युना तप्ताः व्याला
इव निशश्वसुः ॥ ३८ ॥
व्याख्या—ततः = तदनन्तरम्, तत् = पूर्वोक्तम्, आश्रमाणाम् = तपोवनानाम्,
स्थानम् = भूमिम्, तैः = तपस्विभिः, शून्यम् = रहितम्, पश्यन्तः = अवलोकयन्तः,
शून्यचेतसः = विगतमानसाः, मन्युना = क्रोधेन, तप्ताः = प्रज्वलिताः, व्यालाः = सर्पाः,
इव = यथा, निशश्वसुः = निःश्वसितवन्तः ॥ ३८ ॥
हिन्दी—तब वापस शून्य उन आश्रमों को देखकर वे उदास हो गये और क्रोध
से जलते हुए साँपों की तरह लम्बी-लम्बी साँसे लेने लगे ॥ ३८ ॥
अथ ते पुण्यकर्माणः प्रत्युपस्थितवृद्धयः ।
तत्र तज्ज्ञैरुपाख्यातानवापुर्महतो निधीन् ॥ ३९ ॥
अन्वयः—अथ तत्र पुण्यकर्माणः प्रत्युपस्थितवृद्धयः ते तज्ज्ञैः उपाख्यातान् महतो
निधीन् अवापुः ॥ ३९ ॥
व्याख्या—अथ = अनन्तरम्, तत्र = तस्मिन् स्थाने, पुण्यकर्माणः—पुण्यं = सुकृतम्,
कर्म = कृत्यं, येषां ते पुण्यकर्माणः = पुण्यशालिनः, प्रत्युपस्थितवृद्धयः—प्रत्युपस्थिताः =
सम्प्राप्ताः, वृद्धयः = उन्नतयः, येषां ते सम्प्राप्तसमृद्धयः, ते = कुमाराः, तज्ज्ञैः—तज्ज्ञाना-