सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 68, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 68

१४ सौन्दरनन्दं महाकाव्यम्
हिन्दी—जलधारा से घिरी तथा तुम्हारे रथ के चक्कों से चिन्हित इस धरती
पर मेरे स्वर्गारोहण के बाद तुम सब एक नगर बसा लेना ॥ ३३ ॥
ततः कदाचित् ते वीरास्तस्मिन् प्रतिगते मुनौ ।
बभ्रमुर्यौवनोद्दामा गजा इव निरङ्कुशाः ॥ ३४ ॥
अन्वयः—ततः तस्मिन् मुनौ प्रतिगते कदाचित् ते वीराः यौवनोद्दामाः निरङ्कुशाः
गजाः इव बभ्रमुः ॥ ३४ ॥
व्याख्या—ततः = तत्पश्चात्, तस्मिन् = पूर्वोक्ते, मुनौ = ऋषौ, प्रतिगते = स्वर्ग-
ङ्गते, कदाचित् = एकदा, ते = राजकुमाराः, वीराः = पुरुषार्थशीलाः, यौवनोद्दामाः—
यौवनेन = तारुण्येन, उद्दामाः = उच्छृङ्खलाः, निरङ्कुशाः = नियन्त्रणरहिताः, गजाः =
करिणः, इव = यथा, बभ्रमुः = इतस्ततो भ्रमितवन्तः ॥ ३४ ॥
हिन्दी—मुनि के स्वर्गीय होने पर ये वीर राजकुमार इधर-उधर यौवन मद में
निरङ्कुश गजराज की तरह घूमने लगे ॥ ३४ ॥
बद्धगोधाङ्गुलित्राणा हस्तविष्ठितकार्मुकाः ।
शराध्मातमहातूर्णा व्यायताबद्धवाससः ॥ ३५ ॥
अन्वयः—बद्धगोधाङ्गुलित्राणाः हस्तविष्ठितकार्मुकाः शराध्मातमहातूर्णाः व्याय-
ताबद्धवाससः ॥ ३५ ॥
व्याख्या—बद्धगोधाङ्गुलित्राणाः—गोधा एव अङ्गुलित्राणानि गोधाङ्गुलित्राणानि,
बद्धानि गोधाङ्गुलित्राणानि यैस्ते=धृतचर्माङ्गुलित्राणाः, हस्तविष्ठितकार्मुकः—हस्तेषु=
करेषु, विष्ठितानि = धृतानि, कार्मुकानि = धनूंषि, यैस्ते = हस्ते धृतशरासनाः, शरा-
ध्मातमहातूर्णाः—शरैः = बाणैः, आध्माताः ( आ+ध्मा+क्त ) =विकसिताः,
महातूर्णाः = निषङ्गाः, येषां ते = बाणपूरितनिषङ्गाः, व्यायताबद्धवाससः—व्यायतानि
=विशालानि, आबद्धानि =आवेष्टितानि, वासांसि=वस्त्राणि, येषां ते वीराः इतस्ततः
भ्रमन्ति ॥ ३५ ॥
हिन्दी—चमड़े के दस्ताने पहनकर, हाथों में धनुष-बाण लिए, पीठ पर तीरों से
भरे तरकस लटकाये; अपने लम्बे चोंगे का फेटा कसे (वे वीर इधर-उधर घूमने
लगे ) ॥ ३५ ॥
जिज्ञासमाना नागेषु कौशलं श्वापदेषु च ।
अनुचक्रुर्वनस्थस्य दौष्यन्तेर्देवकर्मणः ॥ ३६ ॥
अन्वयः—नागेषु श्वापदेषु च कौशलं जिज्ञासमानाः वनस्थस्य देवकर्मणः
दौष्यन्तेः अनुचक्रुः ॥ ३६ ॥
व्याख्या—नागेषु = गजेषु, श्वापदेषु = वन्यपशुषु, च=पुनः, कौशलम्=नैपुण्यम्,
जिज्ञासमानाः = परीक्ष्यमाणाः, वनस्थस्य = आरण्यकस्य, देवकर्मणः—देवस्य—देव-