सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 65, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 65

कपिलवस्तुवर्णनम् ] प्रथमः सर्गः ११
अन्वयः—सः गौतमः मुनिः ऊर्ध्वं कुमारस्य सगरस्य भार्गवः इव तेषां स्ववंश-
सदृशीः क्रियाः चक्रे ॥ २५ ॥
व्याख्या—सः = असौ, गौतमः = एतन्नामकः, मुनिः = साधकः, ऊर्ध्वम् = पश्चात्,
कुमारस्य = शिशोः, सगरस्य = एतदाख्यस्य राज्ञः, भार्गवः = शुक्राचार्यः, इव = यथा,
तेषां = पूर्वोक्तानां राजपुत्राणाम्, स्ववंशसदृशीः = निजकुलानुसारिण्यः, क्रियाः = संस्काराः,
चक्रे = चकार ॥ २५ ॥
हिन्दी—आचार्य शुक्र ने आगे चलकर जिस तरह राजा सगर का संस्कार किया,
उसी तरह गौतम ने अपने वंश के अनुरूप इन राजकुमारों का संस्कार किया ॥ २५ ॥
कण्वः शाकुन्तलस्येव भरतस्य तरस्विनः ।
वाल्मीकिरिव धीमांश्च धीमतोर्मैथिलेययोः ॥ २६ ॥
अन्वयः—कण्वः शाकुन्तलस्य तरस्विनः भरतस्य इव धीमान् वाल्मीकिः च
धीमतोः मैथिलेययोः इव ॥ २६ ॥
व्याख्या—कण्वः = एकः कुलपतिः, यस्य आश्रमे शकुन्तला तस्य पालितपुत्री इव
आसीत् । शाकुन्तलस्य—शकुन्तलायाः अपत्यं पुमान् (शकुन्तला + अण्) = शकुन्तला-
पुत्रस्य, तरस्विनः = बलवतः, भरतस्य = शकुन्तलापुत्रस्य, इव = यथा, धीमान्—धीः=
बुद्धिः, अस्येति ( धी + मतुप् ) । वाल्मीकिः = महर्षिवाल्मीकिः, रामायणस्य रचयिता-
ऽऽदिकविरस्ति, च = पुनः, धीमतोः = बुद्धिमतोः, मैथिलेययोः—मिथिलायां भवा
मैथिली = सीता, मैथिल्याः अपत्यम् मैथिलेयः, तयोः मैथिलेययोः = सीतासुतयोः,
इव = यथा, गौतमो मुनिः तेषां संस्कारं चकारेति तात्पर्यः ॥ २६ ॥
हिन्दी—इनका संस्कार उसी तरह सम्पन्न हुआ, जैसा ऋषि कण्व ने शकुन्तला
के वीरपुत्र भरत का तथा श्रीमान् वाल्मीकि ने सीता के मेधावी पुत्रों का किया
था ॥ २६ ॥
तद्वनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः ।
शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे ॥ २७ ॥
अन्वयः—तद् वनं तेन मुनिना तैः क्षत्रियपुङ्गवैः च शान्तां गुप्तां च ब्रह्म-
क्षत्रश्रियं युगपद् दधे ॥ २७ ॥
व्याख्या—तत् = पूर्वोक्तम्, वनम् = काननम्, तेन = पूर्वोक्तेन, मुनिना = गौतमेन,
तैः = पूर्वंकथितैः, क्षत्रियपुङ्गवैः = क्षत्रियेषु पुङ्गवास्तैः = राजन्योत्तमैः, शान्तां =
स्वस्थचेताम्, निरुद्वेगाञ्च, गुप्तां = रक्षणयुक्ताम्, च = पुनः, ब्रह्मक्षत्रश्रियम्—ब्रह्म च =
ब्राह्मणञ्च, क्षत्रञ्च = क्षत्रियञ्च, ब्राह्मणक्षत्रियम्, तयोः श्रीः = कान्तिः, ताम्, युगपद् =
सहैव, दधे = (√धा+लिट्) धृतवान् ॥ २७ ॥
हिन्दी—उस वन ने एक साथ जहाँ इन मुनियों के कारण शान्तिमयी ब्राह्मणों
की विभूति धारण किया, वहीं इन कुमारों के कारण रक्षामयी क्षात्रश्री को धारण
किया ॥ २७ ॥