सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 66, कुल 496 में से
संदर्भ में पढ़ें१२ सौन्दरनन्दं महाकाव्यम्
अथोदकलशं गृह्य तेषां वृद्धिचिकीर्षया ।
मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान् ॥ २८ ॥
अन्वयः—अथ सः मुनिः तेषां वृद्धिचिकीर्षया उदकलशं गृह्य वियद् उत्पत्य
तान् नृपात्मजान् उवाच ॥ २८ ॥
व्याख्या—अथ =अनन्तरम्, सः=असौ, मुनिः=ज्ञानीगौतमः, तेषां =राज-
पुत्राणाम्, वृद्धिचिकीर्षया=उन्नतिकर्तुमिच्छया, कर्तुमिच्छा चिकीर्षा (कृञ्+सन्
+टाप्), उदकलशम्—उदकस्य=जलस्य, कलशम्=घटम्, गृह्य=गृहीत्वा, वियद्=
आकाशम्, उत्पत्य = उड्डीय, तान् = पूर्वोक्तान्, नृपात्मजान् = राजपुत्रान्, उवाच =
कथयामास ॥ २८ ॥
हिन्दी—इसके बाद इन राजकुमारों के अभ्युदय की कामना से उन मुनियों ने
जल-कलश लेकर आकाश की ओर प्रस्थान किया तथा राजपुत्रों से कहा ॥ २८ ॥
या पतेत् कलशादस्मादक्षय्यसलिलान्महीम् ।
धारा तामनतिक्रम्य मामन्वेत यथाक्रमम् ॥ २९ ॥
अन्वयः—अस्मात् अक्षय्यसलिलात् कलशात् या धारा महीं पतेत् ताम् अनति-
क्रम्य यथाक्रमं माम् अन्वेत ॥ २९ ॥
व्याख्या—अस्मात् =मद्गृहीतात्, अक्षय्यसलिलात्—क्षेत्तुं शक्यं क्षय्यम्, न
क्षय्यम् अक्षय्यम्, अक्षय्यं सलिलं यस्मिन् सः, तस्मात् =अविनाशीजलात्, कलशात् =
घटात्, या=पूर्वोक्ता, धारा=वेगवान् वर्षः, महीम्=अवनीम्, पतेत्=गिरेत्, ताम्
=पूर्वोक्तसलिलधाराम्, अनतिक्रम्य—न अतिक्रम्येति अनतिक्रम्य (अन्+अति+
क्रम्+क्त्वा—ल्यप् ) = अनुल्लङ्घ्य, यथाक्रमम् = क्रमेण सह, माम् = मुनिम्,
अन्वेत = अनुसरण कुर्वन्तु ॥ २९ ॥
हिन्दी—कभी न चुकने वाली इस घड़े की जलधारा, जो धरती पर गिरती है,
उसे बिना लांघे धीरे-धीरे मेरे पीछे आओ ॥ २९ ॥
ततः परममित्युक्त्वा शिरोभिः प्रणिपत्य च ।
रथानारुरुहुः सर्वे शीघ्रवाहानलङ्कृतान् ॥ ३० ॥
अन्वयः—ततः परमम् इत्युक्त्वा शिरोभिः प्रणिपत्य च सर्वे शीघ्रवाहान् अल-
ङ्कृतान् रथान् आरुरुहुः ॥ ३० ॥
व्याख्या—ततः =तत्पश्चात्, परमम्=अतिशोभनम्, इति =एवम्, उक्त्वा =
कथयित्वा, शिरोभिः = मस्तकैः, प्रणिपत्य =प्रणामं कृत्वा, सः=असौ, सर्वे=सकलाः,
शीघ्रवाहान्—शीघ्रवाहिनः = द्रुतगामिनः, वाहाः = वहनकर्त्तारः घोटकाः, येषु तान्,
अलङ्कृतान् = परिष्कृतान्, रथान् = स्यन्दनान्, आरुरुहुः = आरूढवन्तः (आङ् +
रुह् + लिट् + झि ) ) ॥ ३० ॥
हिन्दी—इसके बाद 'बहुत अच्छा' यह कहकर सिर झुकाकर मुनि को प्रणाम
किया, फिर द्रुतगामी घोड़ों वाले अत्यन्त शोभा सम्पन्न रथों पर सवार हो गये ॥३०॥