सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 64, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 64

१० सौन्दरनन्द महाकाव्यम्
व्याख्या—अत्र तेषां गुरोः वर्णनमस्ति । तेषाम् = नृपसुतानाम्, उपाध्यायः =
गुरुः, उपेत्य अधीयते अस्मात् इति ( उप + अधि + √ इ + घञ् ); तद्यथा—
'एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ।।'—मनुस्मृतिः २।१४१
मुनिः=तत्त्वज्ञः, कपिलः =मुनिविशेषः, गौतमः = एतदाख्यो मुनिविशेषः, अभवत्
= बभूव, अतः = अस्मात् कारणात्, ते = सर्वे, कौत्साः = इक्ष्वाकवः, गुरुगोत्रात्—
गुरोः गोत्रात् = गुरुवंशतः, गौतमाः = गौतमनामकाः, भवन्ति स्म = बभूवतुः ।। २२ ।।
हिन्दी—इनके गुरु कपिल मुनि, जो गौतम नाम से विख्यात थे, उन्हीं के नाम पर
इनका भी नाम गौतम हुआ ।। २२ ।।
एकपित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् ।
राम एवाभवद् गार्ग्यो वासुभद्रोऽपि गौतमः ।। २३ ।।
अन्वयः—यथा पृथग्गुरुपरिग्रहात् एकपित्रोः अपि भ्रात्रोः रामः एव गार्ग्यः अभवत्
वासुभद्रः गौतमः ( अभवत् ) ।। २३ ।।
व्याख्या—यथा = येन प्रकारेण, पृथग्गुरुपरिग्रहात् =गुरोः=आचार्यस्य, परिग्रहात्
= ग्रहणकरणात्, पृथक् = भिन्न इति पृथग्गुरुपरिग्रहात् = व्यक्तिशः गुरुकरणात्,
एकपित्रोः=एकः एव पिता ययोः = एकजनकयोः, अपि = चेत्, भ्रात्रोः = सहोदरयोः,
रामः = एतदाख्यः, एवेति निश्चयः, गार्ग्यः = गार्ग्याभिधानः, अभवत् = बभूव, वासु-
भद्रः = एतन्नामकः, गौतमः अभवत् ।। २३ ।।
हिन्दी—जैसे अलग-अलग गुरु के शिष्य होने से एक ही पिता के पुत्र दो भाई,
राम गार्ग्य और वासुभद्र गौतम हुए ।। २३ ।।
शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्मृताः ।। २४ ।।
अन्वयः—यस्मात् इक्ष्वाकुवंश्याः शाकवृक्षप्रतिच्छन्नम् वासं चक्रिरे तस्मात् ते
भुवि शाक्याः इति स्मृताः ।। २४ ।।
व्याख्या—यस्मात् = येन कारणेन, इक्ष्वाकुवंश्याः = इक्ष्वाकुकुलोत्पन्नाः, शाकवृक्ष-
प्रतिच्छन्नम्—शाकाश्च ते वृक्षास्तैः प्रतिच्छन्नम् = शाकविटपिव्याप्तम्, वासम् =
निवासम्, चक्रिरे = चक्रुः, तस्मात् = तस्मात् कारणात्, ते = इक्ष्वाकवः, भुवि = धरि-
त्र्याम्, शाक्याः = शाक्यनामकाः, इति = इत्थम्, स्मृताः = कथिताः ।। २४ ।।
हिन्दी—उन इक्ष्वाकुवंशी राजकुमारों ने जिस स्थान पर निवास किया था, वह
शाक वन से आच्छादित था । अतः ये लोग आगे चलकर शाक्य कहलाये ।। २४ ।।
स तेषां गौतमश्चक्रे स्ववंशसदृशीः क्रियाः ।
मुनिरूध्वं कुमारस्य सगरस्येव भार्गवः ।। २५ ।।