सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 63, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 63

कपिलवस्तुवर्णनम् ] प्रथमः सर्गः ९
आनन्दविशेषजनकत्वेनात्र सादृश्यत्वमुपमानत्वं बोध्यम्, तथा च अलङ्कारत्वे सति
उपमानतावच्छेदकधर्मविशिष्टसादृश्यत्वेन लुप्तोपमाऽत्र बोध्यम् ॥ १९ ॥
हिन्दी—सोने के खंभे की तरह सुडौल एवं आकर्षक उनके शरीर थे, लम्बी बांहें
तथा सिंह की तरह चौड़ी छातियां थीं। वे महान् ख्याति, श्री और विनय की प्रति-
मूर्त्ति थे ॥ १९ ॥
अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः ।
प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृव्यस्य यवीयसः ॥ २० ॥
अन्वयः—अनर्हस्य चलात्मनः प्रज्ञाविमुक्तस्य यवीयसः भ्रातृव्यस्य अर्हरूपाः
महात्मानः प्राज्ञाः आसन् ॥ २० ॥
व्याख्या—अनर्हस्य = अयोग्यस्य, बौद्ध-साधुभ्योऽपि 'अर्हं'शब्दस्य प्रयोगो भवति,
चलात्मनः—चलः = चपलः, आत्मा = स्वः, येषां ते=अस्थिरजीवाः, प्रज्ञाविमुक्तस्य—
प्रज्ञया = ज्ञानेन, विमुक्तः = रहितस्तस्य=ज्ञानरहितस्य, यवीयसः=कनिष्ठस्य, भ्रातृव्यस्य
—भ्रातुः = सोदरस्य, पुत्रः = सुतः भ्रातृव्यः ( भ्रातृ + ण्यत्, किञ्चात्र भ्रातृव्यशब्दस्य
प्रयोगो वैमात्रेयार्थक एवाऽस्ति ), अर्हरूपाः = योग्याः, महात्मानः = स्थिरप्रज्ञाः,
प्राज्ञाः = धीमन्तः ( आसन् ) ॥ २० ॥
हिन्दी—ये सुयोग्य, महात्मा तथा बुद्धिमान् थे और इनके छोटे सौतेले भाई
अयोग्य, चंचल एवं मूर्ख थे ॥ २० ॥
मातृशुल्कादुपगतां ते श्रियं न विषेहिरे ।
ररक्षुश्च पितुः सत्यं यस्माच्छिश्रियिरे वनम् ॥ २१ ॥
अन्वयः—ते मातृशुल्कात् उपगतां श्रियं विषेहिरे यस्मात् पितुः सत्यं ररक्षुः वनं
च शिश्रियिरे ॥ २१ ॥
व्याख्या—ते = नृपसुताः, मातृशुल्कात् = जननीकरात्, मातृपक्षात् कररूपे प्राप्तव्य-
धनाय प्रयुक्तोऽयं शब्दः, उपगताम् = पुरःस्थिताम्, श्रियम् = लक्ष्मीम्, विषेहिरे =
त्यक्तवन्तः, यस्मात् = कारणात्, पितुः = जनकस्य, सत्यम् = प्रतिज्ञाम्, ररक्षुः = रक्षित-
वन्तः, वनम् = अरण्यम्, च = पुनः, शिश्रियिरे = सेवितवन्तः ॥ २१ ॥
हिन्दी—मातृपक्ष से शुल्करूप में प्राप्त धन का परित्याग कर पिता के सत्य की
रक्षा करते हुए उन्होंने वन का आश्रय ग्रहण किया ॥ २१ ॥
तेषां मुनिरुपाध्यायो गौतमः कपिलोऽभवत् ।
गुरुगोत्रादतः कौत्सास्ते भवन्ति स्म गौतमाः ॥ २२ ॥
अन्वयः—तेषाम् उपाध्यायः मुनिः कपिलः गौतमः अभवत् अतः ते कौत्साः गुरु-
गोत्रात् गौतमाः भवन्ति स्म ॥ २२ ॥