सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 62, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 62

८ सौन्दरनन्दं महाकाव्यम्
अन्वयः—यत्र स्वर्गाय उद्युक्तचेतसः श्राम्यन्तः मुनयः तपोरागेण धर्मस्य
विलोपमिव चक्रिरे ॥ १७ ॥
व्याख्या—श्राम्यन्त इति । यत्र = यस्मिन् तपोवने, स्वर्गाय = अमरलोकाय,
उद्युक्तचेतसः—उद्युक्तं चेतः येषां ते=उत्सुकमनाः, श्राम्यन्तः=श्रान्तः सन्तः, मुनयः=
तपस्विनः, तपोरागेण—तपसः अनुरागस्तेन = तपस्यानुरागेण, धर्मस्य=अभ्युदय-
निःश्रेयससाधको गुणकर्मसमूहः, विलोपम्=नाशम्, इव=यथा, चक्रिरे=चक्रतुः ।
मुनिभिः धर्मस्य लोपकरणे सम्भावनाऽस्ति तेनाऽत्रोत्प्रेक्षालङ्कारः ॥ १७ ॥
हिन्दी—स्वर्ग-प्राप्ति की कामना से मन लगाकर मुनियों ने तप के प्रति अपनी
आस्था प्रकट करते हुए मानों अपने लौकिक कर्त्तव्य को भी भुला दिया ॥ १७ ॥
अथ तेजस्विसदनं तपःक्षेत्रं तमाश्रमम् ।
केचिदिक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ॥ १८ ॥
अन्वयः—अथ तेजस्विसदनं तपःक्षेत्रं तम् आश्रमं केचित् विवत्सवः इक्ष्वाकवः
राजपुत्राः जग्मुः ॥ १८ ॥
व्याख्या—अथ=अनन्तरम्, तेजस्विसदनम्—तेजस्विनी सदनम्=वर्चस्विभवनम्,
तपःक्षेत्रम्=साधनाकेन्द्रम्; तम्=पूर्वोक्तम्, आश्रमम्=आस्थानम्, केचित्=कति-
पयाः, विवत्सवः=वासं कर्तुमिच्छवः, इक्ष्वाकवः=इक्ष्वाकुवंशिनः, राजपुत्राः=
( नृपतनयः, जग्मुः = अगच्छन् ॥ १८ ॥ न्
हिन्दी—कुछ ही दिनों के बाद उस पवित्र आश्रम में, जो उस तपोभूमि का एक
प्रभावशाली क्षेत्र था, इक्ष्वाकुवंश के कई राजकुमारों ने प्रवेश किया ॥ १८ ॥
सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः ।
पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ १९ ॥
अन्वयः—सुवर्णस्तम्भवर्ष्माणः सिंहोरस्काः महाभुजाः महतः शब्दस्य श्रियां
विनयस्य च पात्रम् ( आसीत् ) ॥ १९ ॥
व्याख्या—सुवर्णस्तम्भवर्ष्माणः—सुवर्णस्य=कनकस्य, स्तम्भः=स्थाणुः, इव=
यथा, वर्ष्म=देहम्, येषां ते=कनकयूपशरीराणि, 'शरीरं वर्ष्मं विग्रहः' इत्यमरः; (वृष् +
मनिन्=वर्ष्मं) सिंहोरस्काः—सिंहस्य=मृगाधिपस्य, उरः=वक्षःस्थलम्, इव=यथा,
उरः येषां ते सिंहोरस्काः (ऋत् + असुन्, उत्वं रपरश्चेति; अत्र 'उरःप्रभृतिभ्यः कपि'त्य-
नेन कन् ), महाभुजाः—महत्यः=बृहत्यः, भुजाः=बाहवः, येषां ते=विपुलबाहवः, महतः
=विशालस्य, शब्दस्य=ख्यातेः 'शास्त्रे शब्दस्तु वाचकः' इत्यमरः; श्रियाम्=लक्ष्मी-
नाम्, 'लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया' इत्यमरः; विनयस्य=शालीनतायाः,
च=पुनः, पात्रम्=आश्रयः आसीत् । 'सुवर्णस्तम्भवर्ष्माणः' अस्मिन् सामासिकशब्दे
तथा 'सिंहोरस्काः' इत्यत्राऽपि च लुप्तोपमाऽलङ्कारः । वाक्यार्थोपकारकत्वे सति