सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 61, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 61

कपिलवस्तुवर्णनम् ] प्रथमः सर्गः ७
प्राप्तौ ('यस्य च भावेन भावलक्षणमि'त्यनेनाऽत्र सप्तमी), सन्दिग्धेऽपि = निश्चयाभावेऽपि,
आगमेषु = वेदेषु, विरुद्धेषु = विपरीतेषु, अपि = चेत्, तपोधनाः = तपस्विनः, तपः =
साधनां, प्रत्यक्षिण इव = साक्षिण इव, अकुर्वन् = चक्रुः । अनिश्चयेऽपि बौद्धधर्मानुया-
यिभ्यः 'मोक्षसिद्धान्तः' मान्यो नास्ति, तेषां निर्वाणम् मोक्षाद्भिन्नेतर एवास्ति ।
आगमविरुद्धत्वाद् बौद्धधर्मः अवैदिकधर्मोऽस्ति । तेनायं धर्मः 'शास्त्रविरोधी' इति
कथ्यते । तपस्विभिः तपःप्रत्यक्षीकरणसम्भावनाऽस्ति, तेनाऽत्र चमत्कारजनकत्वे सति
उपमानतावच्छेदकधर्मविशिष्टसम्भावनात्वमुत्प्रेक्षात्वम् ॥ १४ ॥
हिन्दी—परमगति पाने में भ्रान्त तथा वेद-विरोधी होने के बावजूद भी तापसों
ने वहाँ वैसे ही तप किये, मानों उन्हें वहाँ अपने तपफल के प्रत्यक्ष दर्शन हुए हों ॥१४॥
यत्र स्म मीयते ब्रह्म कैश्चित् कैश्चिन्न मीयते ।
काले निमीयते सोमो न चाकाले प्रमीयते ॥ १५ ॥
अन्वयः—यत्र कैश्चित् ब्रह्म मीयतेस्म, कैश्चित् मीयते न काले सोमः निमीयते
अकाले च कैश्चित् न प्रमीयते ॥ १५ ॥
व्याख्या—यत्र स्मेति । यत्र = आश्रमे, कैश्चित् = कतिपयतपस्विभिः, ब्रह्म =
परमेश्वरः, मीयतेस्म = मननं क्रियतेस्म (√माङ् (शब्दे ) लटि, कर्मणि यक्, भूत-
कालिकार्थे लट् योगे 'स्म'), कैश्चित् = बहुभिर्मुनिभिः, न मीयतेस्म = न हिंसितः (अत्र
'मीञ् हिंसायाम्' कर्मणि लट् ), काले = अवसरे, सोमः = सोमलतारसः, निमीयते =
भारनिरूपणं क्रियते, अकाले = अनवसरे, न कोऽपि, प्रमीयतेस्म = म्रियतेस्म ॥ १५ ॥
हिन्दी—इस आश्रम में किसी ने ब्रह्म का चिन्तन किया, तो कुछ ने हिंसा का
परित्याग किया, वहाँ समय पर ही सोमरस चुलाया गया और असमय तो किसी की
मौत हुई ही नहीं ॥ १५ ॥
निरपेक्षाः शरीरेषु धर्मे यत्र स्वबुद्धयः ।
संहृष्टा इव यत्नेन तापसास्तेपिरे तपः ॥ १६ ॥
अन्वयः—यत्र शरीरेषु निरपेक्षाः तापसाः स्वबुद्धयः धर्मे यत्नेन संहृष्टाः इव
तपः तेपिरे ॥ १६ ॥
व्याख्या—निरपेक्षारिति । यत्र = यस्मिन् स्थाने, शरीरेषु = देहेषु, निरपेक्षाः—
निर्गता अपेक्षा येषां ते = अनासक्ताः, तापसाः = तपस्विनः, स्वबुद्धयः = निजमतयः,
धर्मे = धार्मिकानुष्ठाने, यत्नेन = उपायेन, संहृष्टाः = सन्तुष्टाः, इव = यथा, तपः =
साधनाम्, तेपिरे = तप्तवन्तः । अत्र 'इव'शब्दस्य प्रयोगः सम्भावनायामस्ति, अतो-
ऽत्रोत्प्रेक्षाऽलङ्कारः ॥ १६ ॥
हिन्दी—अपने प्रयास से आप संतुष्ट, अपनी बुद्धि के अनुसार अपने धर्म में
स्थिर, देहजनित चिन्ता से मुक्त होकर उन तापसों ने तपस्या की ॥ १६ ॥
श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः ।
तपोरागेण धर्मस्य विलोपमिव चक्रिरे ॥ १७ ॥