सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 60, कुल 496 में से
संदर्भ में पढ़ें६ सौन्दरनन्दं महाकाव्यम्
हिन्दी—इस शान्त तपोवन में केवल आग में हवन करने की, मोरों के बोलने
की एवं घाटों पर नहाने की आवाज ही सुनाई पड़ती थीं ॥ ११ ॥
विरेजुर्हरिणा यत्र सुप्ता मेध्यासु वेदिषु ।
सलाजैर्माधवीपुष्पैरुपहाराः कृता इव ॥ १२ ॥
अन्वयः—यत्र मेध्यासु वेदिषु सुप्ता हरिणाः सलाजैः माधवीपुष्पैः उपहाराः कृताः
इव विरेजुः ॥ १२ ॥
व्याख्या—आश्रममृगसौन्दर्यवर्णनप्रसङ्गे विरेजुरित्याह—यत्र = यस्मिन् स्थाने,
मेध्यासु = पूतासु 'मेध्यं त्रिष्वशुचौ रक्तवचारोचनयोः स्त्रियाम्' इति मेदिनी । वेदिषु
=वेदिकासु 'स्याद्वितर्दिस्तु वेदिके'त्यमरः । सुप्ताः = निद्रिताः, हरिणाः = मृगाः,
सलाजैः = अक्षतयुक्तैः 'लाजैः सहिताः तैः, माधवीपुष्पैः = चन्द्रवल्लीकुसुमैः, उपहाराः
कृताः =( उप + √हृ + घञ् ) उपहृताः, इव=यथा, विरेजुः ( वि + रेज् + लिट् +
झि ) =सुशोभिरे । अत्र मृगाणामुपहारकरणकसम्भावनायामुत्प्रेक्षाऽलङ्कारः ॥ १२ ॥
हिन्दी—यज्ञ की वेदी पर सोये हुए चितकबरा हिरण ऐसा लगता था, जैसे धान
के लावे और माधवी फूलों के साथ उसे भी उस पवित्र वेदी पर किसी ने उपहार ही
चढा दिया हो ॥ १२ ॥
अपि क्षुद्रमृगा यत्र शान्ताश्चेरुः समं मृगैः ।
शरण्येभ्यस्तपस्विभ्यो विनयं शिक्षिता इव ॥ १३ ॥
अन्वयः—यत्र शान्ताः क्षुद्रमृगाः अपि मृगैः समं शरण्येभ्यः तपस्विभ्यः विनयं
शिक्षिताः इव चेरुः ॥ १३ ॥
व्याख्या—यत्र = आश्रमे, शान्ताः = निरुद्वेगाः, क्षुद्रमृगाः = हिंस्रजन्तवः, क्षुद्राश्च
ते मृगाः इति क्षुद्रमृगाः, अपि = चेत्, मृगैः = हरिणैः, समम् = साकम्, शरण्येभ्यः =
शरणप्रदातृभ्यः, शरणे साधु शरण्यः, तेभ्यः ( शरण + यत् + पं० ब० व० ),
तपस्विभ्यः = तपोधनेभ्यः, विनयं = नम्रताम्, शिक्षिता इव = अनुशासिता इवेति,
चेरुः = भ्रमन्तिस्म ( चर् + लिट् + झि ) । सम्भावनार्थकोत्प्रेक्षाऽत्र ॥ १३ ॥
हिन्दी—बाघ-सिंह जैसे हिंसक पशुओं के साथ उस आश्रम के वनप्रान्त में क्षुद्र
हिरण भी शान्तिपूर्वक विचरण करते थे । लगता था मानों उन्होंने अपने शरणदाता
मुनियों से ही विनय की शिक्षा पाई हैं ॥ १३ ॥
सन्दिग्धेऽप्यपुनर्भावि विरुद्धेष्वागमेष्वपि ।
प्रत्यक्षिण इवाकुर्वंस्तपो यत्र तपोधनाः ॥ १४ ॥
अन्वयः—यत्र अपुनर्भावि सन्दिग्धेऽपि आगमेषु विरुद्धेषु अपि तपोधनाः तपः
प्रत्यक्षिण इव अकुर्वन् ॥ १४ ॥
व्याख्या—अथ यद्वक्तव्यं तदाह—सन्दिग्ध इति । यत्र = यस्मिन् तपोवने,
अपुनर्भावि = पुनर्भवंतीति पुनर्भाविः, न पुनर्भाविः अपुनर्भाविस्तस्मिन् अपुनर्भावि = मोक्ष-