सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 59, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 59

कपिलवस्तुवर्णनम् ] प्रथमः सर्गः ५
पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः ।
शुशुभे ववृधे चैव नरः साधनवानिव ॥ ९ ॥
अन्वयः—सर्वतः फलपुष्पाभिः वनराजिभिः साधनवान् नरः इव ववृधे शुशुभे
चैव ॥ ९ ॥
व्याख्या—साधनसम्पन्नमानवमिवाश्रममाह—पर्याप्तेत्यादि । सर्वतः=परितः,
फलपुष्पाभिः=( वनराजिभिरित्यस्य विशेषणम्, विशेषणविवक्षायाऽत्र लिङ्गनिर्देशः,
किन्नूद्देश्यविशेषणस्य विधेयविशेषणत्वं क्लिष्टम् ) फलकुसुमयुक्ताभिः, वनराजिभिः=
वनपङ्क्तिभिः, साधनवान्=साधनसम्पन्नः, साधनानि सन्ति यस्य सः (साधन + मतुप्);
नरः=मानवः, इव=यथा, ववृधे=एधाञ्चकार, शुशुभे=शोभितवान् ( शुभ् + लिट् ),
चैव=अपि चेति । साधनसम्पन्नमानवमिवाऽत्र सादृश्यं सुन्दरं वाक्यार्थोपकारकमुप-
मालङ्कृतिर्बोध्यम् ॥ ९ ॥
हिन्दी—चारों ओर फल-फूलों से लदे पेड़ों की कतारों से इस आश्रम का सौन्दर्य
एवं अभ्युदय मानों साधनसम्पन्न व्यक्ति की तरह प्रतीत हो रहा था ॥ ९ ॥
नीवारफलसन्तुष्टैः स्वस्थैः शान्तैरनुत्सुकैः ।
आकीर्णोऽपि तपोभृद्भिः शून्यशून्य इवाभवत् ॥ १० ॥
अन्वयः—नीवारफलसन्तुष्टैः स्वस्थैः शान्तैः अनुत्सुकैः तपोभृद्भिः आकीर्णोऽपि
शून्यशून्य इव अभवत् ॥ १० ॥
व्याख्या—नीवारफलसन्तुष्टैः=धान्यविशेषफलतुष्टैः, नीवाराश्च फलानि च तैः
सन्तुष्टैः ( नि+वच्+घञ्, दीर्घश्चेति ), स्वस्थैः=निरोगैः, शान्तैः=शान्तचित्तैः,
अनुत्सुकैः=निरभिलाषैः, न उत्सुकाः अनुत्सुकास्तैः, तपोभृद्भिः=तपस्विभिः, तपः
बिभ्रतीति तपोभृत्, तैः, आकीर्णोऽपि=व्याप्तोऽपि, शून्यशून्य=निर्मक्षिकमिव,
अभवत्=बभूवेति । आकीर्णोऽपि शून्यशून्य इवाऽत्र चमत्कारजनकत्वे सति उपमान-
तावच्छेदकधर्मविशिष्टसम्भावनात्वमुत्प्रेक्षेति ॥ १० ॥
हिन्दी-तिन्नी, धान और फलों से संतुष्ट, स्वस्थ, शान्त एवं निरभिलाष
तपस्वियों से भरे रहने पर भी वह आश्रम सूना-सूना-सा लगता था ॥ १० ॥
अग्नीनां हूयमानानां शिखिनां कूजतामपि ।
तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निःस्वनः ॥ ११ ॥
अन्वयः—यत्र हूयमानानाम् अग्नीनां कूजतां शिखिनाम् अपि अभिषेकेषु च
तीर्थानां निःस्वनः शुश्रुवे ॥ ११ ॥
व्याख्या—यत्र=तपोवने, हूयमानानाम्=हवनं क्रियमाणानाम्, अग्नीनाम् =
पावकानाम्, कूजताम्=मुखराणाम्, शिखिनाम्=शिखा अस्ति अस्येति तेषां =
कलापिनाम्, अपि=चेत्, अभिषेकेषु=स्नानेषु, तीर्थानाम्=पवित्रजलाशयानाम्,
निःस्वनः=शब्दः, शुश्रुवे=श्रुतवान् ॥ ११ ॥