सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 58, कुल 496 में से
संदर्भ में पढ़ें४ सौन्दरनन्दं महाकाव्यम्
व्याख्या—चारुवीरुत्तरुवनः—वीरुधश्च, विशेषेण रुणद्धि अन्यान् वृक्षान्; ( वि+
रुध् + क्विप्, उपसर्गस्य दीर्घः ) 'लताप्रतानिनी वीरुत्' इति भट्टिः; लताश्च, तरवश्च =
वृक्षाणि च ( व्रश्च् + क्सू ), वीरुधश्चेति तरवश्चेति वीरुत्तरवः, चारवः वीरुत्तरवः इति
चारुवीरुत्तरवः, तैः सहितं वनम् इति चारुवीरुत्तरवनं यस्मिन् सः चारुवीरुत्तरवनः=
सुन्दरलतावृक्षारण्यः, प्रस्निग्धमृदुशाद्वलः=मसृणकोमलशाद्वलः, प्रस्निग्धे=चिक्कणे,
मृदुः = कोमलम्, शाद्वलम्—शादाः सन्ति अत्रेति ( शाद् + वलच् ), शाद्वलम्=तृणयुक्त-
भूमिः, हविर्धूमवितानेन—हविषः धूमस्तस्य वितानस्तेन =यज्ञधूमाच्छादनेन, यः=
आश्रमः, सदा=सर्वदा, अभ्रः=मेघः, इव=यथा, आवभौ=सुशोभितो बभूव
( आङ्+√भा+लिट् ) । इवपदेनात्रोपमालङ्कारः ॥ ६ ॥
हिन्दी—सुन्दर लताओं और वृक्षों से वह वन आकर्षक बना था। वहाँ की धरती
पर चिकनी, कोमल एवं हरी घासों की चादर बिछी थी। होम के धुएँ से बने बादलों
का ऊपर चंदोवा टँगा था ॥ ६ ॥
मृदुभिः सैकतैः स्निग्धैः केसरास्तरपाण्डुभिः ।
भूमिभागैरसङ्कीर्णैः साङ्गरागा इवाभवत् ॥ ७ ॥
अन्वयः—मृदुभिः सैकतैः स्निग्धैः असङ्कीर्णैः केसरास्तरपाण्डुभिः, भूमिभागैः,
साङ्गरागाः इव अभवत् ॥ ७ ॥
व्याख्या—मृदुभिः =कोमलैः, सैकतैः = सिकतामयैः, स्निग्धैः=मसृणैः, असङ्कीर्णैः
—न सङ्कीर्णास्तैः=पवित्रैः, केसरास्तरपाण्डुभिः—केसराणाम् आस्तरस्तेन पाण्डुस्तैः =
केसरशय्यापीतैः, भूमिभागैः—भूमेः भागास्तैः=भूखण्डैः, साङ्गरागाः—अङ्गरागेन
सहिताः साङ्गरागाः = अङ्गरागयुक्ताः, इव=यथा, अभवत्=बभूवेति ॥ ७ ॥
हिन्दी—अत्यन्त कोमल एवं चिकने फैले हुए सुगन्धित पुष्प-पराग से पीली बनी
धरती ही उस आश्रम के लिए सुगन्धि लेप दी ॥ ७ ॥
शुचिभिस्तीर्थसङ्ख्यातः पावनैर्भावनैरपि ।
बन्धुमानिव यस्तस्थौ सरोभिः ससरोरुहैः ॥ ८ ॥
अन्वयः—शुचिभिः तीर्थसङ्ख्यातैः पावनैः भावनैः अपि ससरोरुहैः सरोभिः यः
बन्धुमान् इव तस्थौ ॥ ८ ॥
व्याख्या—शुचिभिः=पवित्रैः, तीर्थसङ्ख्यातः—तीर्थानां सङ्ख्यातानि, तैः =तीर्थ-
स्वरूपैः, पावनैः = निर्मलैः, भावनैः=सुन्दरैः, अपि=चेत्, ससरोरुहैः—सरसि रोहन्तीति
सरोरुहास्तैः=कमलैः, सरोभिः=जलाशयैः, यः =आश्रमः, बन्धुमान्—बन्धवः सन्ति
अस्येति बन्धुमान् ( बन्धु+मतुप् )=बन्धुयुक्तः, इव =यथा, तस्थौ = ( √स्था + लिट्
+तिप् ) तस्थिवान् ॥ ८ ॥
हिन्दी—विकसित कमलों से भरा परिगणित एवं पवित्र घाटों वाले सरोवरों से
घिरा वह आश्रम बहुकुटुम्बी की तरह लग रहा था ॥ ८ ॥