सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 57, कुल 496 में से
संदर्भ में पढ़ेंकपिलवस्तुवर्णनम् ] प्रथमः सर्गः ३
व्रीहिः तपःशिष्टं येषां तेषु । वसिष्ठ इवात्रेवेन सहोपमालङ्कारः । गाम् शब्दस्य च
द्विरावृत्त्या यमकाऽलङ्कारोऽप्यस्ति ॥ ३ ॥
हिन्दी—अपनी हवन-सामग्री के लिए मुनि वसिष्ठ ने जैसे अपनी गायों को दुहा,
उसी तरह गौतम बुद्ध ने भी अपने तपस्वी शिष्यों को उपदेश देने के लिए अपनी
वाणी को दुहा ॥ ३ ॥
माहात्म्याद् दीर्घतपसो यो द्वितीय इवाभवत् ।
तृतीय इव यश्चाभूत् काव्याङ्गिरसयोर्धिया ॥ ४ ॥
अन्वयः—माहात्म्यात् यः, द्वितीयः दीर्घतपस इव अभवत्, च धिया यः तृतीयः
काव्याङ्गिरसयोः इव अभूत् ॥ ४ ॥
व्याख्या—माहात्म्यात् = निजप्रभावात्, यः = गौतमो बुद्धः, द्वितीयः = अपरः,
दीर्घतपसः = दीर्घं तपः यस्य सः तस्य, महत्पुण्यभाग्, इव = यथा, अहल्यापति-
गौतमस्य विशेषणम्, अभवत् = आसीत्, च = पुनः, धिया = बुद्ध्या, तृतीयः काव्या-
ङ्गिरसयोः = एतन्नामकयोः मुन्योः, काव्यश्च आङ्गिरसश्च तयोः काव्याङ्गिरसयोः,
काव्यः = रक्षसां गुरुः शुक्राचार्यः ( कवि + ण्यत् = काव्यः ), आङ्गिरसः = देवानां गुरुः
बृहस्पतिः, अङ्गिरसः अपत्यं पुमान् आङ्गिरसः ( अङ्गिरस् + अण् ), बृहस्पतिः
ऋग्वेदस्य मन्त्रद्रष्टाऋषेरङ्गिरसः पुत्र आसीत् । इव = तद्वत्, अभूत् = बभूव । गौतमं
काव्याङ्गिरसयोरिव कथितमस्ति । अतोऽत्र उपमालङ्कारः ॥ ४ ॥
हिन्दी—अपनी महिमा में वे मानों दूसरे अहल्यापति गौतम थे और ज्ञान में तो
शुक्र और बृहस्पति की तरह तीसरे ज्ञानी थे ॥ ४ ॥
तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे ।
क्षेत्रं चायतनं चैव तपसामाश्रमोऽभवत् ॥ ५ ॥
अन्वयः—तस्य विस्तीर्णतपंसः हिमवतः शुभे पार्श्वे तपसाम् आश्रमः आयतनं
क्षेत्रं च अभवत् ॥ ५ ॥
व्याख्या—तस्य = गौतमस्य, विस्तीर्णतपसः = विस्तीर्णं तपः यस्य सः, तस्य =
दीर्घतपसः, हिमवतः = हिमालयस्य, शुभे = कल्याणिने, पार्श्वे = अञ्चले, तपसाम् =
साधनानाम्, आश्रमः = आस्थानम्, आयतनम् = निकेतनम्, च क्षेत्रम् = स्थानम्,
च अभवत् = आसीत् ॥ ५ ॥
हिन्दी—हिमालय की सुखद तराई में उस महातपस्वी का आश्रम था, जो संसिद्धि
का क्षेत्र था ॥ ५ ॥
चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः ।
हविर्धूमवितानेन यः सदाभ्र इवाबभौ ॥ ६ ॥
अन्वयः—चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः यः हविर्धूमवितानेन सदा अभ्र
इव आबभौ ॥ ६ ॥