सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 56, कुल 496 में से
संदर्भ में पढ़ें२ सौन्दरनन्दं महाकाव्यम्
व्याख्या—कपिलः = एको मुनिस्तद्वंशावतीर्णः, गौतमः = शौद्धोदनिः, नाम = एत-
न्नामकः, मुनिः = शास्ता, 'मुनीन्द्रः श्रीघनः शास्ता मुनिः' इत्यमरः; धर्मभृताम्—धर्मं
विभर्त्तीति धर्मभृत्, तेषां धर्मभृताम् ( धर्म + √भृञ् + क्विप् + षष्ठीबहुवचने 'यतश्च
निर्धारणे' इत्यनेन षष्ठी ) = धर्माचरणकर्तॄणाम्, वरः = श्रेष्ठः, काक्षीवान्--काक्षी =
सुराष्ट्रजा 'काक्षी मृत्स्ना तु वरिकामृतालकसुराष्ट्रजे' इत्यमरस्तथा 'काक्षी तु वरिकायां
च सौराष्ट्रमुद्यपि स्त्रियाम्' इति मेदिनी; कक्षे भवा इति काक्षी ( 'तत्र भवः' ४।३।५३
इत्यण् ), काक्षी अस्ति अस्य इति काक्षीवान् ( काक्षी + मतुप् ), गौतमः =
अहल्यापतिगौतमनामकः, मुनिः = ऋषिः, इव = सदृशः, तपसि = तपस्यायाम्,
श्रान्तः = निरतः, बभूव = अभवत् । अनुष्टुप् छन्दः ॥ १ ॥
हिन्दी—धार्मिकों में श्रेष्ठ महातपस्वी, अहल्यापति ज्ञानी गौतम की तरह कपिल
वंश में गौतम बुद्ध नामक एक तपस्वी हुए ॥ १ ॥
अशिश्रियद्यः सततं दीप्तं काश्यपवत्तपः ।
आशिश्राय च तद्वृद्धौ सिद्धिं काश्यपवत्पराम् ॥ २ ॥
अन्वयः—यः काश्यपवत् सततं दीप्तं तपः अशिश्रियत्, तद्वृद्धौ काश्यपवत् परां
सिद्धिम् आशिश्राय च ॥ २ ॥
व्याख्या—यः = गौतमः, काश्यपवत् = एकः प्रसिद्धः ऋषिः तदिव ( कश्यप् +
अण् ), सततम् = अनवरतम्, दीप्तम् = प्रज्ज्वलितम् ( दीप् + क्त ), तपः = नियम-
स्थितिः, अशिश्रियत् = अकरोत् ( 'श्रिञ् सेवायाम्' लुङ्लकारश्च्लेश्चङादेशः छित्व-
ञ्चेति ) । अथ च तद्वृद्धौ = तपोवृद्धौ, काश्यपवत् = कणादमुनिरिव, पराम् = परमो-
त्कृष्टां, सिद्धिम् = साफल्यम्, आशिश्राय = लब्धवान् । ( 'आ' उपसर्गात् श्रिञ् धातोः
लिट्, प्र० पु० एकवचनस्य रूपम् ) ॥ २ ॥
हिन्दी—उन्होंने मुनि काश्यप की तरह कठोर तपस्या की तथा उस प्रदीप्त तप
को बढ़ाकर परम सिद्धि की प्राप्ति की ॥ २ ॥
हविःषु यश्च स्वात्मार्थं गामधुक्षद् वसिष्ठवत् ।
तपःशिष्टेषु च शिष्येषु गामधु(धो)क्षद् वसिष्ठवत् ॥ ३ ॥
अन्वयः—यः च वसिष्ठवत् स्वात्मार्थं हविःषु गाम् अधुक्षत् तपःशिष्टेषु शिष्येषु
वसिष्ठवत् गां च अधुक्षत् ॥ ३ ॥
व्याख्या—यः = गौतममुनिः, चः = पुनः, वसिष्ठवत् = वसिष्ठमुनिरिव ( वसिष्ठ +
मतुप् ), वसिष्ठो हि मुनिः निजगोभ्यः स्वकृतयज्ञार्थं दुग्ध-दधि-घृतादिकमलभत । तद्वत्
स्वात्मार्थम्—स्वस्य=आत्मनोऽर्थमिति=निजार्थं, हविःषु=हविष्यान्नेषु, गाम् = धेनुम्,
अधुक्षत् = दोग्धवान् । ( 'हविषे' इति पाठान्तरे 'निमित्तात् कर्मयोगे' इत्यनेनात्र सप्त-
मीति ) तपःशिष्टेषु = तपस्विषु, शिष्येषु = छात्रेषु, वसिष्ठवत् = वसिष्ठमुनिरिव, च =
पुनः, गाम्=धेनुम्, पक्षान्तरे—पृथिवीं वाणीञ्च, अधुक्षत् = दुदोह । तपःशिष्टेष्वत्र बहु-