सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 55, कुल 496 में से
संदर्भ में पढ़ें॥ श्रीः ॥
महाकवि-अश्वघोषप्रणीतं
सौन्दरनन्दं महाकाव्यम्
'विमला'-संस्कृत-हिन्दीव्याख्योपेतम्
प्रथमः सर्गः
कपिलवस्तुवर्णनम्
गौतमः कपिलो नाम मुनिर्धर्मभृतां वरः ।
बभूव तपसि श्रान्तः काक्षीवानिव गौतमः ॥ १ ॥
टीकाकर्तुः मङ्गलाचरणम्
कामारिर्भूत्वाऽपि सकामचेतसा भोगीव योगी गिरिजां ददर्श ।
प्रयत्नसंस्तम्भितविकृतियंः स मे शिवः मङ्गलमातनोतु ॥ १ ॥
नमो ब्रह्मस्वरूपाय परेशाय यतात्मने ।
निर्विकल्पाय नित्याय विश्वरूपाय शम्भवे ॥ २ ॥
बुद्धं सङ्घहितं नत्वा त्वाचारं विभाव्य च ।
व्याख्येयं क्रियते 'विमला' प्रीतये च सतां मुदा ॥ ३ ॥
सौन्दरनन्दार्णवात् किञ्चिद्रत्नान्युद्धृत्य ग्रथ्यते ।
मालेयमश्वघोषस्य सुखयेद्विबुधानपि ॥ ४ ॥
मिश्रजगदीशचन्द्रेण वाणीं संवर्द्धितात्मना ।
बालानां सुखबोधाय क्रियते विमला मया ॥ ५ ॥
अथ तत्रभवान् महाधीमान् बौद्धसङ्घचूडामणिः प्राज्ञजनस्तुत्यजनिः चूडान्तप्रतिभा-
विकासोऽश्वघोषः सत्काव्यस्य सर्वजनाऽभिलाषविषयचतुर्वर्गफलप्राप्तिहेतुतया भगवतो
बुद्धस्यानवद्यभव्यचरित्रपवित्रमतिशयरुच्यं सौन्दरनन्दाऽभिख्यं महाकाव्यं चिकीर्षुः
'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इति शास्त्रात् आदौ प्रस्तुतविषया-
नुकूलं वस्तु निर्दिशति—
अन्वयः—कपिलः गौतमः नाम मुनिः धर्मभृतां वरः काक्षीवान् गौतमः इव
तपसि श्रान्तः बभूव ॥ १ ॥