सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 472, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 472

परिशिष्ट ( घ )
सौन्दरनन्द महाकाव्य में प्रयुक्त सूक्तियाँ
१. असारमस्वन्तमनिश्चितं जगज्जगत्यनित्ये बलमव्यवस्थितम्। ( ९।१६ )
२. कृतश्रुतो विप्रतिपद्यमानो निन्यो हि निर्वीय इवात्तशस्त्रः। ( १८।२५ )
३. गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम्। ( ९।२८ )
४. चित्तं निषेद्धुं न सुखेन शक्यं कृष्टांदको गौरिव संस्यमध्यात्। ( १४।४८ )
५. दुर्लभं तु प्रियहितं स्वादु पथ्यमिवौषधम्। ( ११।१६ )
६. दुःखं हि शेते शयनेऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः। ( १८।२९ )
७. न कामभोगा हि भवन्ति तृप्तये। ( ९।४३ )
८. न तो हि भक्तश्च नियोगमर्हति। ( १८।५३ )
९. निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः। ( १५।५३ )
१०. निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये। ( ९।४८ )
११. प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषोऽपि। ( १८।३६ )
१२. प्राज्ञेन दोषेष्वपि वर्तितव्यम्। ( १६।८१ )
१३. बलाबले चात्मनि सम्प्रधार्य कार्यः प्रयत्नो न तु तद्विरुद्धः। ( १६।५२ )
१४. भवन्ति कामा न तु कस्यचिच्छिवाः। ( ९।४७ )
१५. भवाद् भवं याति न शान्तिमेति संसारडोलामधिरुह्य लोकः। ( १६।६ )
१३. मोहात्सक्तो जने जनः। ( १५।३१ )
१७. मृत्युः सर्वास्ववस्थासु हन्ति नावेक्षते वयः। ( १५।५४ )
१८. यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो बहुविधमन-
र्थाय भवति। ( ८।६१ )
१९. यावत्तृषंः पुरुषो हि लोके तावत्समृद्धोऽपि सदा दरिद्रः। ( १८।३० )
२०. यास्यामि निष्ठामिति बालिशो हि जन्मक्षयात् त्रासमिहाभ्युपैति। ( १८।२६ )
२१. रूक्षमप्याशये शुद्धे रूक्षतो नैति सज्जनः। ( ११।१५ )
२२. विनिगुह्य हि रोगमातुरो नचिरात्तीव्रमनर्थमृच्छति। ( ८।४ )
२३. व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च। ( १५।४१ )
२४. शीतं हृदं घर्म इवावतीर्णः। ( १७।६६ )
२५. शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति। ( १६।३४ )
२६. शूरोऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः। ( १८।२८ )
२७. श्रुतोन्नतस्यापि हि नास्ति बुद्धिनौत्पद्यते श्रेयसि यस्य बुद्धिः। ( १८।३५ )
२८. सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव। ( १८।३२ )
२९. सर्वौषधीनामिव भूर्भवाय सर्वापदां क्षेत्रमिदं हि जन्म। ( १६।७ )
३० सुखं विरागत्वमसक्तबुद्धेः। ( १८।४२.)