सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 422, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 422

३६८ सौन्दरनन्दं महाकाव्यम्
हिन्दी—इसके बाद उसने चतुर्थ ध्यान का आश्रय लेकर मुक्ति पाने का निश्चय
किया, ठीक उसी तरह जैसे कोई राजा शक्तिशाली श्रेष्ठ मित्र के सहयोग से अजित
देशों को जीतना चाहता है ॥ ५६ ॥
चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन ।
ऊर्ध्वङ्गमान्युत्तमबन्धनानि संयोजनान्युत्तमबन्धनानि ॥ ५७ ॥
अन्वयः—ततः सः भावनया ईरितेन प्रज्ञासिना पञ्च ऊर्ध्वंगमानि उत्तमबन्धनानि
संयोजनानि उत्तमबन्धनानि कार्त्स्न्येन चिच्छेद ॥ ५७ ॥
व्याख्या—ततः =तत्पश्चात्, सः =नन्दः, भावनया=इच्छया, ईरितेन =प्रेरितेन,
प्रज्ञासिना =ज्ञानकरवालेन, पञ्च =पञ्चसङ्ख्याकानि, ऊर्ध्वंगमानि—ऊर्ध्वम् =उपरि,
गन्तुम् =चलितुम्, शीलम् =स्वभावम्, एषामिति तानि, उत्तमबन्धनानि =कल्याण-
बाधकानि, कार्त्स्न्येन =पूर्णरूपेण, चिच्छेद =कर्त्तयामास ॥ ५७ ॥
हिन्दी—तब उसने भावना द्वारा संचालित प्रज्ञा रूपी तलवार से कल्याण के
बाधक पाँच ऊर्ध्वभागीय और पाँच अवरभागीय बन्धनों को पूरा-पूरा काट डाला ॥
बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द्द ।
द्वीपानि वोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिरेव सप्त ॥ ५८ ॥
अन्वयः—सः सप्तभिः बोध्यङ्गनागैः एव सप्त चित्तानुशयान् अपि कालः सप्तभिः
एव ग्रहैः उपस्थितविप्रणाशान् सप्त द्वीपान् इव ममर्द्द ॥ ५८ ॥
व्याख्या—सः=नन्दः, सप्तभिः=सप्तसङ्ख्याकैः, बोध्यङ्गनागैः =बोध्यङ्गगजैः, एव,
सप्त=सप्तसङ्ख्याकान्, चित्तानुशयान्=मनोविकारान्, अपि=चेत्, कालः=समयः, सप्तभिः
एव =सप्तसङ्ख्याकैरेव, ग्रहैः =नक्षत्रैः, उपस्थितविप्रणाशान्—उपस्थितः =समागतः,
विप्रणाशः =विनाशः, येषां तान्, सप्त द्वीपान् =सप्त भूखण्डान्, इव =यथा, ममर्द्द =
मर्दितवान् ॥ ५८ ॥
हिन्दी—उसने सातबोधि अङ्गरूपी हाथियों द्वारा सात मनोविकारों को रगड़
डाला, जैसे काल सात ग्रहों के द्वारा उपस्थित विनाश वाले सात द्वीपों को नष्ट कर
देता है ॥ ५८ ॥
अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कबन्धवाय्वग्निदिवाकराणाम् ।
दोषेषु तां वृत्तिमियाय नन्दो निर्वापणोत्पाटनदाहशोषैः ॥ ५९ ॥
अन्वयः—कबन्धवाय्वग्निदिवाकराणां या हि वृत्तिः अग्निद्रुमाज्याम्बुषु नन्दः
निर्वापणोत्पाटनदाहशोषैः दोषेषु तां वृत्तिम् इयाय ॥ ५९ ॥
व्याख्या—कबन्धवाय्वग्निदिवाकराणाम्—कबन्धश्च=छिन्नमस्तको देहः, मेघो वा,
च=पुनः, वायुश्च =पवनश्च, अग्निश्च =वह्निश्च, दिवाकरश्च =सूर्यश्च, तेषां समाहारः,
या हि =यदि, वृत्तिः=आचारः, अग्निद्रुमाज्याम्बुषु =वह्निपादपघृतजलेषु, भवति,